Mahabharata

Anushasana Parva, Adhyaya 78

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 1

शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम्

गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 2

लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः

भवेम न च लिप्येम दोषेणेति परंतप

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 3

स एव चेतसा तेन हतो लिप्येत सर्वदा

शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 4

तथा सर्वाणि भूतानि स्थावराणि चराणि च

प्रदातारश्च गोलोकान्गच्छेयुरिति मानद

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 5

ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः

एवं भवत्विति विभुर्लोकांस्तारयतेति च

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 6

उत्तस्थुः सिद्धिकामास्ता भूतभव्यस्य मातरः

तपसोऽन्ते महाराज गावो लोकपरायणाः

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 7

तस्माद्गावो महाभागाः पवित्रं परमुच्यते

तथैव सर्वभूतानां गावस्तिष्ठन्ति मूर्धनि

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 8

समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम्

सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 9

रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम्

सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 10

समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम्

सुव्रतां वस्त्रसंवीतां सोमलोके महीयते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 11

समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम्

सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 12

समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम्

सुव्रतां वस्त्रसंवीतामग्निलोके महीयते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 13

समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम्

सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 14

अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम्

प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 15

वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम्

प्रदाय वस्त्रसंवीतां वायुलोके महीयते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 16

हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम्

प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 17

पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम्

प्रदाय वस्त्रसंवीतां पितृलोके महीयते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 18

सवत्सां पीवरीं दत्त्वा शितिकण्ठामलंकृताम्

वैश्वदेवमसंबाधं स्थानं श्रेष्ठं प्रपद्यते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 19

समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम्

सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 20

पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम्

प्रदाय वस्त्रसंवीतां साध्यानां लोकमश्नुते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 21

वैराटपृष्ठमुक्षाणं सर्वरत्नैरलंकृतम्

प्रदाय मरुतां लोकानजरान्प्रतिपद्यते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 22

वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम्

गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 23

शितिकण्ठमनड्वाहं सर्वरत्नैरलंकृतम्

दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 24

गोप्रदानरतो याति भित्त्वा जलदसंचयान्

विमानेनार्कवर्णेन दिवि राजन्विराजता

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 25

तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः

रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम्

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 26

वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः

हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते

Mahabharata

Anushasana Parva, Adhyaya 78, Verse 27

यावन्ति लोमानि भवन्ति धेन्वा;स्तावन्ति वर्षाणि महीयते सः

स्वर्गाच्च्युतश्चापि ततो नृलोके; कुले समुत्पत्स्यति गोमिनां सः