Mahabharata

Anushasana Parva, Adhyaya 77

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 1

एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम्

इक्ष्वाकुवंशजो राजा सौदासो ददतां वरः

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 2

सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम्

पुरोहितमिदं प्रष्टुमभिवाद्योपचक्रमे

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 3

त्रैलोक्ये भगवन्किं स्वित्पवित्रं कथ्यतेऽनघ

यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम्

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 4

तस्मै प्रोवाच वचनं प्रणताय हितं तदा

गवामुपनिषद्विद्वान्नमस्कृत्य गवां शुचिः

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 5

गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धिकाः

गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत्

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 6

गावो भूतं भविष्यच्च गावः पुष्टिः सनातनी

गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति

अन्नं हि सततं गावो देवानां परमं हविः

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 7

स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ

गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 8

सायं प्रातश्च सततं होमकाले महामते

गावो ददति वै होम्यमृषिभ्यः पुरुषर्षभ

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 9

कानिचिद्यानि दुर्गाणि दुष्कृतानि कृतानि च

तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 10

एकां च दशगुर्दद्याद्दश दद्याच्च गोशती

शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 11

अनाहिताग्निः शतगुरयज्वा च सहस्रगुः

समृद्धो यश्च कीनाशो नार्घ्यमर्हन्ति ते त्रयः

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 12

कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम्

सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 13

युवानमिन्द्रियोपेतं शतेन सह यूथपम्

गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलंकृतम्

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 14

वृषभं ये प्रयच्छन्ति श्रोत्रियाय परंतप

ऐश्वर्यं तेऽभिजायन्ते जायमानाः पुनः पुनः

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 15

नाकीर्तयित्वा गाः सुप्यान्नास्मृत्य पुनरुत्पतेत्

सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात्

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 16

गवां मूत्रपुरीषस्य नोद्विजेत कदाचन

न चासां मांसमश्नीयाद्गवां व्युष्टिं तथाश्नुते

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 17

गाश्च संकीर्तयेन्नित्यं नावमन्येत गास्तथा

अनिष्टं स्वप्नमालक्ष्य गां नरः संप्रकीर्तयेत्

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 18

गोमयेन सदा स्नायाद्गोकरीषे च संविशेत्

श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत्

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 19

सार्द्रचर्मणि भुञ्जीत निरीक्षन्वारुणीं दिशम्

वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं तथाश्नुते

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 20

घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्

घृतं दद्याद्घृतं प्राशेद्गवां व्युष्टिं तथाश्नुते

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 21

गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः

रसरत्नमयीं दद्यान्न स शोचेत्कृताकृते

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 22

गावो मामुपतिष्ठन्तु हेमशृङ्गाः पयोमुचः

सुरभ्यः सौरभेयाश्च सरितः सागरं यथा

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 23

गावः पश्यन्तु मां नित्यं गावः पश्याम्यहं तदा

गावोऽस्माकं वयं तासां यतो गावस्ततो वयम्

Mahabharata

Anushasana Parva, Adhyaya 77, Verse 24

एवं रात्रौ दिवा चैव समेषु विषमेषु च

महाभयेषु च नरः कीर्तयन्मुच्यते भयात्