Mahabharata

Anushasana Parva, Adhyaya 76

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 1

ततो युधिष्ठिरो राजा भूयः शांतनवं नृप

गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 2

गोप्रदाने गुणान्सम्यक्पुनः प्रब्रूहि भारत

न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम्

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 3

इत्युक्तो धर्मराजेन तदा शांतनवो नृप

सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान्

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 4

वत्सलां गुणसंपन्नां तरुणीं वस्त्रसंवृताम्

दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 5

असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति

पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम्

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 6

जरोग्रामुपयुक्तार्थां जीर्णां कूपमिवाजलम्

दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत्

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 7

दुष्टा रुष्टा व्याधिता दुर्बला वा; न दातव्या याश्च मूल्यैरदत्तैः

क्लेशैर्विप्रं योऽफलैः संयुनक्ति; तस्यावीर्याश्चाफलाश्चैव लोकाः

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 8

बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः

यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 9

कस्मात्समाने बहुलाप्रदाने; सद्भिः प्रशस्तं कपिलाप्रदानम्

विशेषमिच्छामि महानुभाव; श्रोतुं समर्थो हि भवान्प्रवक्तुम्

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 10

वृद्धानां ब्रुवतां तात श्रुतं मे यत्प्रभाषसे

वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 11

प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा

असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 12

यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः

तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 13

अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः

ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 14

यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः

सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 15

एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया

वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत्

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 16

इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः

प्रजापतिर्बलाधानममृतं प्रापिबत्तदा

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 17

स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन्

ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम्

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 18

सासृजत्सौरभेयीस्तु सुरभिर्लोकमातरः

सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 19

तासाममृतवर्णानां क्षरन्तीनां समन्ततः

बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 20

स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः

शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः

ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 21

तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते

नानावर्णत्वमनयन्मेघानिव दिवाकरः

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 22

यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः

यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम्

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 23

अथ क्रुद्धं महादेवं प्रजापतिरभाषत

अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम्

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 24

यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः

तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसंभवाः

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 25

न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः

नामृतेनामृतं पीतं वत्सपीता न वत्सला

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 26

इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्नवेन च

आसामैश्वर्यमश्नीहि सर्वामृतमयं शुभम्

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 27

वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः

प्रसादयामास मनस्तेन रुद्रस्य भारत

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 28

प्रीतश्चापि महादेवश्चकार वृषभं तदा

ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 29

ततो देवैर्महादेवस्तदा पशुपतिः कृतः

ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते

Mahabharata

Anushasana Parva, Adhyaya 76, Verse 30

एवमव्यग्रवर्णानां कपिलानां महौजसाम्

प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः