Mahabharata

Anushasana Parva, Adhyaya 75

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 1

विधिं गवां परमहं श्रोतुमिच्छामि तत्त्वतः

येन ताञ्शाश्वताँल्लोकानखिलानश्नुवीमहि

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 2

न गोदानात्परं किंचिद्विद्यते वसुधाधिप

गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम्

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 3

सतामर्थे सम्यगुत्पादितो यः; स वै कॢप्तः सम्यगिष्टः प्रजाभ्यः

तस्मात्पूर्वं ह्यादिकाले प्रवृत्तं; गवां दाने शृणु राजन्विधिं मे

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 4

पुरा गोषूपनीतासु गोषु संदिग्धदर्शिना

मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 5

द्विजातिमभिसत्कृत्य श्वः कालमभिवेद्य च

प्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 6

आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च

प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत्

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 7

गौर्मे माता गोवृषभः पिता मे; दिवं शर्म जगती मे प्रतिष्ठा

प्रपद्यैवं शर्वरीमुष्य गोषु; मुनिर्वाणीमुत्सृजेद्गोप्रदाने

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 8

स तामेकां निशां गोभिः समसख्यः समव्रतः

ऐकात्म्यगमनात्सद्यः कल्मषाद्विप्रमुच्यते

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 9

उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने

त्रिविधं प्रतिपत्तव्यमर्थवादाशिषः स्तवाः

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 10

ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञो; गर्भोऽमृतस्य जगतश्च प्रतिष्ठा

क्षितौ राधःप्रभवः शश्वदेव; प्राजापत्याः सर्वमित्यर्थवादः

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 11

गावो ममैनः प्रणुदन्तु सौर्या;स्तथा सौम्याः स्वर्गयानाय सन्तु

आम्नाता मे ददतीराश्रयं तु; तथानुक्ताः सन्तु सर्वाशिषो मे

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 12

शेषोत्सर्गे कर्मभिर्देहमोक्षे; सरस्वत्यः श्रेयसि संप्रवृत्ताः

यूयं नित्यं पुण्यकर्मोपवाह्या; दिशध्वं मे गतिमिष्टां प्रपन्नाः

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 13

या वै यूयं सोऽहमद्यैकभावो; युष्मान्दत्त्वा चाहमात्मप्रदाता

मनश्च्युता मनएवोपपन्नाः; संधुक्षध्वं सौम्यरूपोग्ररूपाः

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 14

एवं तस्याग्रे पूर्वमर्धं वदेत; गवां दाता विधिवत्पूर्वदृष्टम्

प्रतिब्रूयाच्छेषमर्धं द्विजातिः; प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 15

गां ददानीति वक्तव्यमर्घ्यवस्त्रवसुप्रदः

ऊधस्या भरितव्या च वैष्णवीति च चोदयेत्

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 16

नाम संकीर्तयेत्तस्या यथासंख्योत्तरं स वै

फलं षड्विंशदष्टौ च सहस्राणि च विंशतिः

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 17

एवमेतान्गुणान्वृद्धान्गवादीनां यथाक्रमम्

गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 18

गोदः शीली निर्भयश्चार्घदाता; न स्याद्दुःखी वसुदाता च कामी

ऊधस्योढा भारत यश्च विद्वा;न्व्याख्यातास्ते वैष्णवाश्चन्द्रलोकाः

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 19

गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं; निशां चैकां संवसेतेह ताभिः

काम्याष्टम्यां वर्तितव्यं त्रिरात्रं; रसैर्वा गोः शकृता प्रस्नवैर्वा

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 20

वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोयुगस्य प्रदाने

तथा गवां विधिमासाद्य यज्वा; लोकानग्र्यान्विन्दते नाविधिज्ञः

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 21

कामान्सर्वान्पार्थिवानेकसंस्था;न्यो वै दद्यात्कामदुघां च धेनुम्

सम्यक्ताः स्युर्हव्यकव्यौघवत्य;स्तासामुक्ष्णां ज्यायसां संप्रदानम्

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 22

न चाशिष्यायाव्रतायोपकुर्या;न्नाश्रद्दधानाय न वक्रबुद्धये

गुह्यो ह्ययं सर्वलोकस्य धर्मो; नेमं धर्मं यत्र तत्र प्रजल्पेत्

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 23

सन्ति लोके श्रद्दधाना मनुष्याः; सन्ति क्षुद्रा राक्षसा मानुषेषु

येषां दानं दीयमानं ह्यनिष्टं; नास्तिक्यं चाप्याश्रयन्ते ह्यपुण्याः

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 24

बार्हस्पत्यं वाक्यमेतन्निशम्य; ये राजानो गोप्रदानानि कृत्वा

लोकान्प्राप्ताः पुण्यशीलाः सुवृत्ता;स्तान्मे राजन्कीर्त्यमानान्निबोध

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 25

उशीनरो विष्वगश्वो नृगश्च; भगीरथो विश्रुतो यौवनाश्वः

मान्धाता वै मुचुकुन्दश्च राजा; भूरिद्युम्नो नैषधः सोमकश्च

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 26

पुरूरवा भरतश्चक्रवर्ती; यस्यान्वये भारताः सर्व एव

तथा वीरो दाशरथिश्च रामो; ये चाप्यन्ये विश्रुताः कीर्तिमन्तः

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 27

तथा राजा पृथुकर्मा दिलीपो; दिवं प्राप्तो गोप्रदाने विधिज्ञः

यज्ञैर्दानैस्तपसा राजधर्मै;र्मान्धाताभूद्गोप्रदानैश्च युक्तः

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 28

तस्मात्पार्थ त्वमपीमां मयोक्तां; बार्हस्पतीं भारतीं धारयस्व

द्विजाग्र्येभ्यः संप्रयच्छ प्रतीतो; गाः पुण्या वै प्राप्य राज्यं कुरूणाम्

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 29

तथा सर्वं कृतवान्धर्मराजो; भीष्मेणोक्तो विधिवद्गोप्रदाने

स मान्धातुर्देवदेवोपदिष्टं; सम्यग्धर्मं धारयामास राजा

Mahabharata

Anushasana Parva, Adhyaya 75, Verse 30

इति नृप सततं गवां प्रदाने; यवशकलान्सह गोमयैः पिबानः

क्षितितलशयनः शिखी यतात्मा; वृष इव राजवृषस्तदा बभूव