Mahabharata

Anushasana Parva, Adhyaya 74

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 1

विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो

प्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 2

व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते

नियमानां फलं किं च स्वधीतस्य च किं फलम्

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 3

दमस्येह फलं किं च वेदानां धारणे च किम्

अध्यापने फलं किं च सर्वमिच्छामि वेदितुम्

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 4

अप्रतिग्राहके किं च फलं लोके पितामह

तस्य किं च फलं दृष्टं श्रुतं यः संप्रयच्छति

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 5

स्वकर्मनिरतानां च शूराणां चापि किं फलम्

सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम्

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 6

पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा

आचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 7

एतत्सर्वमशेषेण पितामह यथातथम्

वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 8

यो व्रतं वै यथोद्दिष्टं तथा संप्रतिपद्यते

अखण्डं सम्यगारब्धं तस्य लोकाः सनातनाः

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 9

नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते

नियमानां क्रतूनां च त्वयावाप्तमिदं फलम्

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 10

स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च

इहलोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 11

दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे

दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 12

यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः

प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 13

युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव

स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 14

दानैर्यज्ञैश्च विविधैर्यथा दान्ताः क्षमान्विताः

दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 15

यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः

क्रोधो हन्ति हि यद्दानं तस्माद्दानात्परो दमः

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 16

अदृश्यानि महाराज स्थानान्ययुतशो दिवि

ऋषीणां सर्वलोकेषु यानीतो यान्ति देवताः

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 17

दमेन यानि नृपते गच्छन्ति परमर्षयः

कामयाना महत्स्थानं तस्माद्दानात्परो दमः

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 18

अध्यापकः परिक्लेशादक्षयं फलमश्नुते

विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 19

अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति

गुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीयते

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 20

क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि

युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 21

वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत्

शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयार्च्छति

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 22

शूरा बहुविधाः प्रोक्तास्तेषामर्थांश्च मे शृणु

शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 23

यज्ञशूरा दमे शूराः सत्यशूरास्तथापरे

युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 24

बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथापरे

आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 25

तैस्तैस्तु नियमैः शूरा बहवः सन्ति चापरे

वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 26

गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे

मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथापरे

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 27

सांख्यशूराश्च बहवो योगशूरास्तथापरे

अरण्ये गृहवासे च शूराश्चातिथिपूजने

सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान्

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 28

धारणं सर्ववेदानां सर्वतीर्थावगाहनम्

सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम्

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 29

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्

अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते

Mahabharata

Anushasana Parva, Adhyaya 74, Verse 30

सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते

सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम्