Mahabharata

Anushasana Parva, Adhyaya 73

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 1

जानन्यो गामपहरेद्विक्रीयाद्वार्थकारणात्

एतद्विज्ञातुमिच्छामि का नु तस्य गतिर्भवेत्

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 2

भक्षार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते

दानार्थं वा ब्राह्मणाय तत्रेदं श्रूयतां फलम्

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 3

विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः

घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 4

घातकः खादको वापि तथा यश्चानुमन्यते

यावन्ति तस्या लोमानि तावद्वर्षाणि मज्जति

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 5

ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके

विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 6

अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति

यावद्दाने फलं तस्यास्तावन्निरयमृच्छति

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 7

सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते

सुवर्णं परमं ह्युक्तं दक्षिणार्थमसंशयम्

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 8

गोप्रदानं तारयते सप्त पूर्वांस्तथा परान्

सुवर्णं दक्षिणां दत्त्वा तावद्द्विगुणमुच्यते

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 9

सुवर्णं परमं दानं सुवर्णं दक्षिणा परा

सुवर्णं पावनं शक्र पावनानां परं स्मृतम्

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 10

कुलानां पावनं प्राहुर्जातरूपं शतक्रतो

एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 11

एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ

इन्द्रो दशरथायाह रामायाह पिता तथा

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 12

राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने

ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता विभो

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 13

पारंपर्यागतं चेदमृषयः संशितव्रताः

दुर्धरं धारयामासू राजानश्चैव धार्मिकाः

उपाध्यायेन गदितं मम चेदं युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 14

य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि

यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे

Mahabharata

Anushasana Parva, Adhyaya 73, Verse 15

तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा

इति ब्रह्मा स भगवानुवाच परमेश्वरः