Mahabharata

Anushasana Parva, Adhyaya 66

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 1

श्रुतं दानफलं तात यत्त्वया परिकीर्तितम्

अन्नं तु ते विशेषेण प्रशस्तमिह भारत

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 2

पानीयदानं परमं कथं चेह महाफलम्

इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 3

हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ

गदतस्तन्ममाद्येह शृणु सत्यपराक्रम

पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 4

यदन्नं यच्च पानीयं संप्रदायाश्नुते नरः

न तस्मात्परमं दानं किंचिदस्तीति मे मतिः

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 5

अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः

तस्मादन्नं परं लोके सर्वदानेषु कथ्यते

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 6

अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा

अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 7

सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम्

यतश्चैतद्यथा चैतद्देवसत्रे महामते

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 8

अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत

प्राणदानाद्धि परमं न दानमिह विद्यते

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 9

श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः

प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 10

तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते

गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम्

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 11

अन्नं चापि प्रभवति पानीयात्कुरुसत्तम

नीरजातेन हि विना न किंचित्संप्रवर्तते

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 12

नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः

अमृतं च सुधा चैव स्वाहा चैव वषट्तथा

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 13

अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः

यतः प्राणभृतां प्राणाः संभवन्ति विशां पते

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 14

देवानाममृतं चान्नं नागानां च सुधा तथा

पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 15

अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः

तच्च सर्वं नरव्याघ्र पानीयात्संप्रवर्तते

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 16

तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित्

तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 17

धन्यं यशस्यमायुष्यं जलदानं विशां पते

शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 18

सर्वकामानवाप्नोति कीर्तिं चैवेह शाश्वतीम्

प्रेत्य चानन्त्यमाप्नोति पापेभ्यश्च प्रमुच्यते

Mahabharata

Anushasana Parva, Adhyaya 66, Verse 19

तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते

अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः