Mahabharata

Anushasana Parva, Adhyaya 65

Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 1

दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ

यत्फलं तस्य भवति तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 2

उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः

मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि

स शत्रूणामुपरि च संतिष्ठति युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 3

यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते

उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम्

शकटं दम्यसंयुक्तं दत्तं भवति चैव हि

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 4

यत्फलं तिलदाने च भूमिदाने च कीर्तितम्

गोप्रदानेऽन्नदाने च भूयस्तद्ब्रूहि कौरव

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 5

शृणुष्व मम कौन्तेय तिलदानस्य यत्फलम्

निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 6

पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयंभुवा

तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 7

माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति

सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 8

सर्वकामैः स यजते यस्तिलैर्यजते पितॄन्

न चाकामेन दातव्यं तिलश्राद्धं कथंचन

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 9

महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः

ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 10

पौष्टिका रूपदाश्चैव तथा पापविनाशनाः

तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 11

आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा

महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 12

तिलहोमपरा विप्राः सर्वे संयतमैथुनाः

समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 13

सर्वेषामेव दानानां तिलदानं परं स्मृतम्

अक्षयं सर्वदानानां तिलदानमिहोच्यते

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 14

उत्पन्ने च पुरा हव्ये कुशिकर्षिः परंतप

तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम्

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 15

इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम्

विधानं येन विधिना तिलानामिह शस्यते

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 16

अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम्

समागमं महाराज ब्रह्मणा वै स्वयंभुवा

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 17

देवाः समेत्य ब्रह्माणं भूमिभागं यियक्षवः

शुभं देशमयाचन्त यजेम इति पार्थिव

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 18

भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च

यजेमहि महाभाग यज्ञं भवदनुज्ञया

नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 19

त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च

प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 20

ददामि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः

यस्मिन्देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 21

भगवन्कृतकामाः स्मो यक्ष्यामस्त्वाप्तदक्षिणैः

इमं तु देशं मुनयः पर्युपासन्त नित्यदा

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 22

ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः

असितो देवलश्चैव देवयज्ञमुपागमन्

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 23

ततो देवा महात्मान ईजिरे यज्ञमच्युत

तथा समापयामासुर्यथाकालं सुरर्षभाः

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 24

त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे

षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 25

प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम्

न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 26

शीतवातातपसहां गृहभूमिं सुसंस्कृताम्

प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 27

मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव

प्रतिश्रयप्रदाता च सोऽपि स्वर्गे महीयते

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 28

अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः

गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 29

तथा गवार्थे शरणं शीतवर्षसहं महत्

आसप्तमं तारयति कुलं भरतसत्तम

Mahabharata

Anushasana Parva, Adhyaya 65, Verse 30

क्षेत्रभूमिं ददल्लोके पुत्र श्रियमवाप्नुयात्

रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत्