Mahabharata

Anushasana Parva, Adhyaya 64

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 1

सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम्

इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत्

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 2

पवित्रं शुच्यथायुष्यं पितॄणामक्षयं च तत्

सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम्

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 3

पानीयदानं परमं दानानां मनुरब्रवीत्

तस्माद्वापीश्च कूपांश्च तडागानि च खानयेत्

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 4

अर्धं पापस्य हरति पुरुषस्येह कर्मणः

कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 5

सर्वं तारयते वंशं यस्य खाते जलाशये

गावः पिबन्ति विप्राश्च साधवश्च नराः सदा

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 6

निदाघकाले पानीयं यस्य तिष्ठत्यवारितम्

स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुते

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 7

बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च

अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 8

परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम्

रसानामुत्तमं चैतत्फलानां चैतदुत्तमम्

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 9

फलकामो यशस्कामः पुष्टिकामश्च नित्यदा

घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान्

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 10

घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति

तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 11

पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति

गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 12

पिपासया न म्रियते सोपच्छन्दश्च दृश्यते

न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 13

प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतः

उपस्पर्शनषड्भागं लभते पुरुषः सदा

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 14

यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति

प्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 15

सिध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च

उपर्युपरि शत्रूणां वपुषा दीप्यते च सः

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 16

भगवांश्चास्य सुप्रीतो वह्निर्भवति नित्यशः

न तं त्यजन्ते पशवः संग्रामे च जयत्यपि

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 17

पुत्राञ्छ्रियं च लभते यश्छत्रं संप्रयच्छति

चक्षुर्व्याधिं न लभते यज्ञभागमथाश्नुते

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 18

निदाघकाले वर्षे वा यश्छत्रं संप्रयच्छति

नास्य कश्चिन्मनोदाहः कदाचिदपि जायते

कृच्छ्रात्स विषमाच्चैव विप्र मोक्षमवाप्नुते

Mahabharata

Anushasana Parva, Adhyaya 64, Verse 19

प्रदानं सर्वदानानां शकटस्य विशिष्यते

एवमाह महाभागः शाण्डिल्यो भगवानृषिः