Mahabharata

Anushasana Parva, Adhyaya 62

Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 1

कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः

गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 2

केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत

शंस मे तन्महाबाहो फलं पुण्यकृतं महत्

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 3

दत्तं किं फलवद्राजन्निह लोके परत्र च

भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 4

इममर्थं पुरा पृष्टो नारदो देवदर्शनः

यदुक्तवानसौ तन्मे गदतः शृणु भारत

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 5

अन्नमेव प्रशंसन्ति देवाः सर्षिगणाः पुरा

लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम्

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 6

अन्नेन सदृशं दानं न भूतं न भविष्यति

तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 7

अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः

अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 8

अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च

अन्नात्प्रभवति प्राणः प्रत्यक्षं नात्र संशयः

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 9

कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने

दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 10

ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने

निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 11

श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम्

अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम्

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 12

क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः

अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम्

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 13

नावमन्येदभिगतं न प्रणुद्यात्कथंचन

अपि श्वपाके शुनि वा न दानं विप्रणश्यति

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 14

यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते

श्रान्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात्

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 15

पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप

यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत्

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 16

कृत्वापि पापकं कर्म यो दद्यादन्नमर्थिने

ब्राह्मणाय विशेषेण न स पापेन युज्यते

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 17

ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम्

अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 18

न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव वा

भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 19

अन्नदस्यान्नवृक्षाश्च सर्वकामफलान्विताः

भवन्तीहाथ वामुत्र नृपते नात्र संशयः

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 20

आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः

अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 21

ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते

अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात्

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 22

ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक्

विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 23

सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते

महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 24

दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम्

मृष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 25

अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम्

अन्नदः पशुमान्पुत्री धनवान्भोगवानपि

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 26

प्राणवांश्चापि भवति रूपवांश्च तथा नृप

अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 27

अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि

प्रदाता सुखमाप्नोति देवैश्चाप्यभिपूज्यते

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 28

ब्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत्

उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत्

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 29

प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर्भवत्युत

सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत

Mahabharata

Anushasana Parva, Adhyaya 62, Verse 30

अन्नाद्धि प्रसवं विद्धि रतिमन्नाद्धि भारत

धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः