Mahabharata

Anushasana Parva, Adhyaya 61

Containing 93 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 1

इदं देयमिदं देयमितीयं श्रुतिचोदना

बहुदेयाश्च राजानः किं स्विद्देयमनुत्तमम्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 2

अति दानानि सर्वाणि पृथिवीदानमुच्यते

अचला ह्यक्षया भूमिर्दोग्ध्री कामाननुत्तमान्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 3

दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा

भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 4

यावद्भूमेरायुरिह तावद्भूमिद एधते

न भूमिदानादस्तीह परं किंचिद्युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 5

अप्यल्पं प्रददुः पूर्वे पृथिव्या इति नः श्रुतम्

भूमिमेते ददुः सर्वे ये भूमिं भुञ्जते जनाः

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 6

स्वकर्मैवोपजीवन्ति नरा इह परत्र च

भूमिर्भूतिर्महादेवी दातारं कुरुते प्रियम्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 7

य एतां दक्षिणां दद्यादक्षयां पृथिवीपतिः

पुनर्नरत्वं संप्राप्य भवेत्स पृथिवीपतिः

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 8

यथा दानं तथा भोग इति धर्मेषु निश्चयः

संग्रामे वा तनुं जह्याद्दद्याद्वा पृथिवीमिमाम्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 9

इत्येतां क्षत्रबन्धूनां वदन्ति परमाशिषम्

पुनाति दत्ता पृथिवी दातारमिति शुश्रुम

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 10

अपि पापसमाचारं ब्रह्मघ्नमपि वानृतम्

सैव पापं पावयति सैव पापात्प्रमोचयेत्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 11

अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः

पृथिवीं नान्यदिच्छन्ति पावनं जननी यथा

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 12

नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम्

दानं वाप्यथ वा ज्ञानं नाम्नोऽस्याः परमं प्रियम्

तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 13

नाभूमिपतिना भूमिरधिष्ठेया कथंचन

न वा पात्रेण वा गूहेदन्तर्धानेन वा चरेत्

ये चान्ये भूमिमिच्छेयुः कुर्युरेवमसंशयम्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 14

यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः

भूमिं तु दत्त्वा साधुभ्यो विन्दते भूमिमेव हि

प्रेत्येह च स धर्मात्मा संप्राप्नोति महद्यशः

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 15

यस्य विप्रानुशासन्ति साधोर्भूमिं सदैव हि

न तस्य शत्रवो राजन्प्रशासन्ति वसुंधराम्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 16

यत्किंचित्पुरुषः पापं कुरुते वृत्तिकर्शितः

अपि गोचर्ममात्रेण भूमिदानेन पूयते

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 17

येऽपि संकीर्णकर्माणो राजानो रौद्रकर्मिणः

तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 18

अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः

यो यजेदश्वमेधेन दद्याद्वा साधवे महीम्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 19

अपि चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः

अशक्यमेकमेवैतद्भूमिदानमनुत्तमम्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 20

सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च

सर्वमेतन्महाप्राज्ञ ददाति वसुधां ददत्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 21

तपो यज्ञः श्रुतं शीलमलोभः सत्यसंधता

गुरुदैवतपूजा च नातिवर्तन्ति भूमिदम्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 22

भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः

ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 23

यथा जनित्री क्षीरेण स्वपुत्रं भरते सदा

अनुगृह्णाति दातारं तथा सर्वरसैर्मही

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 24

मृत्योर्वै किंकरो दण्डस्तापो वह्नेः सुदारुणः

घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 25

पितॄंश्च पितृलोकस्थान्देवलोके च देवताः

संतर्पयति शान्तात्मा यो ददाति वसुंधराम्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 26

कृशाय म्रियमाणाय वृत्तिम्लानाय सीदते

भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 27

यथा धावति गौर्वत्सं क्षीरमभ्युत्सृजन्त्युत

एवमेव महाभाग भूमिर्भवति भूमिदम्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 28

हलकृष्टां महीं दत्त्वा सबीजां सफलामपि

उदीर्णं वापि शरणं तथा भवति कामदः

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 29

ब्राह्मणं वृत्तसंपन्नमाहिताग्निं शुचिव्रतम्

नरः प्रतिग्राह्य महीं न याति यमसादनम्

Mahabharata

Anushasana Parva, Adhyaya 61, Verse 30

यथा चन्द्रमसो वृद्धिरहन्यहनि जायते

तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते