Mahabharata

Anushasana Parva, Adhyaya 60

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 1

दानं यज्ञक्रिया चेह किं स्वित्प्रेत्य महाफलम्

कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 2

एतदिच्छामि विज्ञातुं याथातथ्येन भारत

विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 3

अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः

किं स्विन्निःश्रेयसं तात तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 4

रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते

तस्य वैतानिकं कर्म दानं चैवेह पावनम्

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 5

न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः

एतस्मात्कारणाद्यज्ञैर्यजेद्राजाप्तदक्षिणैः

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 6

अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः

श्रद्धामास्थाय परमां पावनं ह्येतदुत्तमम्

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 7

ब्राह्मणांस्तर्पयेद्द्रव्यैस्ततो यज्ञे यतव्रतः

मैत्रान्साधून्वेदविदः शीलवृत्ततपोन्वितान्

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 8

यत्ते तेन करिष्यन्ति कृतं तेन भविष्यति

यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 9

इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा

पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 10

प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः

प्रजावांस्तेन भवति यथा जनयिता तथा

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 11

यावतो वै साधुधर्मान्सन्तः संवर्तयन्त्युत

सर्वे ते चापि भर्तव्या नरा ये बहुभारिणः

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 12

समृद्धः संप्रयच्छस्व ब्राह्मणेभ्यो युधिष्ठिर

धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 13

आज्यानि यजमानेभ्यस्तथान्नाद्यानि भारत

अश्ववन्ति च यानानि वेश्मानि शयनानि च

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 14

एते देया व्युष्टिमन्तो लघूपायाश्च भारत

अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान्

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 15

उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपादय

राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 16

एवं पापैर्विमुक्तस्त्वं पूतः स्वर्गमवाप्स्यसि

स्रंसयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 17

ततश्च ब्रह्मभूयस्त्वमवाप्स्यसि धनानि च

आत्मनश्च परेषां च वृत्तिं संरक्ष भारत

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 18

पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय

योगक्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 19

अरक्षितारं हर्तारं विलोप्तारमदायकम्

तं स्म राजकलिं हन्युः प्रजाः संभूय निर्घृणम्

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 20

अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः

स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 21

पापं कुर्वन्ति यत्किंचित्प्रजा राज्ञा ह्यरक्षिताः

चतुर्थं तस्य पापस्य राजा भारत विन्दति

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 22

अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः

चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम्

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 23

शुभं वा यत्प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः

चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 24

जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर

पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः

Mahabharata

Anushasana Parva, Adhyaya 60, Verse 25

कुबेरमिव रक्षांसि शतक्रतुमिवामराः

ज्ञातयस्त्वानुजीवन्तु सुहृदश्च परंतप