Mahabharata

Anushasana Parva, Adhyaya 59

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 1

यौ तु स्यातां चरणेनोपपन्नौ; यौ विद्यया सदृशौ जन्मना च

ताभ्यां दानं कतरस्मै विशिष्ट;मयाचमानाय च याचते च

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 2

श्रेयो वै याचतः पार्थ दत्तमाहुरयाचते

अर्हत्तमो वै धृतिमान्कृपणादधृतात्मनः

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 3

क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः

ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान्

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 4

याच्ञामाहुरनीशस्य अभिहारं च भारत

उद्वेजयति याचन्हि सदा भूतानि दस्युवत्

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 5

म्रियते याचमानो वै तमनु म्रियते ददत्

ददत्संजीवयत्येनमात्मानं च युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 6

आनृशंस्यं परो धर्मो याचते यत्प्रदीयते

अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रय

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 7

यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः

भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 8

तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि

पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 9

तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परंतप

ददद्बहुविधान्दायानुपच्छन्दानयाचताम्

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 10

यदग्निहोत्रे सुहुते सायंप्रातर्भवेत्फलम्

विद्यावेदव्रतवति तद्दानफलमुच्यते

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 11

विद्यावेदव्रतस्नातानव्यपाश्रयजीविनः

गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान्

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 12

कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः

निमन्त्रयेथाः कौन्तेय कामैश्चान्यैर्द्विजोत्तमान्

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 13

अपि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर

कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 14

अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान्

येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 15

अन्नानि प्रातःसवने नियता ब्रह्मचारिणः

ब्राह्मणास्तात भुञ्जानास्त्रेताग्नीन्प्रीणयन्तु ते

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 16

माध्यंदिनं ते सवनं ददतस्तात वर्तताम्

गा हिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 17

तृतीयं सवनं तत्ते वैश्वदेवं युधिष्ठिर

यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 18

अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः

दमस्त्यागो धृतिः सत्यं भवत्ववभृथाय ते

Mahabharata

Anushasana Parva, Adhyaya 59, Verse 19

एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः

विशिष्टः सर्वयज्ञेभ्यो नित्यं तात प्रवर्तताम्