Mahabharata

Anushasana Parva, Adhyaya 58

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 1

यानीमानि बहिर्वेद्यां दानानि परिचक्षते

तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुंगव

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 2

कौतूहलं हि परमं तत्र मे वर्तते प्रभो

दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 3

अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहम्

यच्चाभिलषितं दद्यात्तृषितायाभियाचते

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 4

दत्तं मन्येत यद्दत्त्वा तद्दानं श्रेष्ठमुच्यते

दत्तं दातारमन्वेति यद्दानं भरतर्षभ

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 5

हिरण्यदानं गोदानं पृथिवीदानमेव च

एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतम्

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 6

एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा

दानानि हि नरं पापान्मोक्षयन्ति न संशयः

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 7

यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे

तत्तद्गुणवते देयं तदेवाक्षयमिच्छता

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 8

प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा

प्रियो भवति भूतानामिह चैव परत्र च

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 9

याचमानमभीमानादाशावन्तमकिंचनम्

यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 10

अमित्रमपि चेद्दीनं शरणैषिणमागतम्

व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 11

कृशाय ह्रीमते तात वृत्तिक्षीणाय सीदते

अपहन्यात्क्षुधं यस्तु न तेन पुरुषः समः

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 12

ह्रिया तु नियतान्साधून्पुत्रदारैश्च कर्शितान्

अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रय

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 13

आशिषं ये न देवेषु न मर्त्येषु च कुर्वते

अर्हन्तो नित्यसत्त्वस्था यथालब्धोपजीविनः

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 14

आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत

तान्युक्तैरुपजिज्ञास्य तथा द्विजवरोत्तमान्

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 15

कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः

निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 16

यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर

कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 17

विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्यजीविनः

गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 18

तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च

यत्करिष्यसि कल्याणं तत्त्वा लोकेषु धास्यति

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 19

यथाग्निहोत्रं सुहुतं सायं प्रातर्द्विजातिना

तथा भवति दत्तं वै द्विजेभ्योऽथ कृतात्मना

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 20

एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः

विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम्

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 21

निवापो दानसदृशस्तादृशेषु युधिष्ठिर

निवपन्पूजयंश्चैव तेष्वानृण्यं निगच्छति

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 22

य एव नो न कुप्यन्ति न लुभ्यन्ति तृणेष्वपि

त एव नः पूज्यतमा ये चान्ये प्रियवादिनः

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 23

ये नो न बहु मन्यन्ते न प्रवर्तन्ति चापरे

पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाभयम्

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 24

ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते

क्षत्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 25

अस्ति मे बलवानस्मि राजास्मीति युधिष्ठिर

ब्राह्मणान्मा स्म पर्यश्नीर्वासोभिरशनेन च

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 26

यच्छोभार्थं बलार्थं वा वित्तमस्ति तवानघ

तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 27

नमस्कार्यास्त्वया विप्रा वर्तमाना यथातथम्

यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत्

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 28

को ह्यन्यः सुप्रसादानां सुहृदामल्पतोषिणाम्

वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 29

यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः

स देवः सा गतिर्नान्या तथास्माकं द्विजातयः

Mahabharata

Anushasana Parva, Adhyaya 58, Verse 30

यदि नो ब्राह्मणास्तात संत्यजेयुरपूजिताः

पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम्