Mahabharata

Anushasana Parva, Adhyaya 56

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 1

अवश्यं कथनीयं मे तवैतन्नरपुंगव

यदर्थं त्वाहमुच्छेत्तुं संप्राप्तो मनुजाधिप

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 2

भृगूणां क्षत्रिया याज्या नित्यमेव जनाधिप

ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 3

क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप

आ गर्भादनुकृन्तन्तो दैवदण्डनिपीडिताः

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 4

तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः

और्वो नाम महातेजा ज्वलनार्कसमद्युतिः

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 5

स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति

महीं सपर्वतवनां यः करिष्यति भस्मसात्

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 6

कंचित्कालं तु तं वह्निं स एव शमयिष्यति

समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 7

पुत्रं तस्य महाभागमृचीकं भृगुनन्दनम्

साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 8

क्षत्रियाणामभावाय दैवयुक्तेन हेतुना

स तु तं प्रतिगृह्यैव पुत्रे संक्रामयिष्यति

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 9

जमदग्नौ महाभागे तपसा भावितात्मनि

स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 10

कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति

उद्भावनार्थं भवतो वंशस्य नृपसत्तम

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 11

गाधेर्दुहितरं प्राप्य पौत्रीं तव महातपाः

ब्राह्मणं क्षत्रधर्माणं राममुत्पादयिष्यति

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 12

क्षत्रियं विप्रकर्माणं बृहस्पतिमिवौजसा

विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम्

तपसा महता युक्तं प्रदास्यति महाद्युते

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 13

स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः

पितामहनियोगाद्वै नान्यथैतद्भविष्यति

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 14

तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति

भविता त्वं च संबन्धी भृगूणां भावितात्मनाम्

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 15

कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः

श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह

एवमस्त्विति धर्मात्मा तदा भरतसत्तम

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 16

च्यवनस्तु महातेजाः पुनरेव नराधिपम्

वरार्थं चोदयामास तमुवाच स पार्थिवः

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 17

बाढमेवं ग्रहीष्यामि कामं त्वत्तो महामुने

ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत्

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 18

एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः

अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 19

एतत्ते कथितं सर्वमशेषेण मया नृप

भृगूणां कुशिकानां च प्रति संबन्धकारणम्

Mahabharata

Anushasana Parva, Adhyaya 56, Verse 20

यथोक्तं मुनिना चापि तथा तदभवन्नृप

जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव ह