Mahabharata

Anushasana Parva, Adhyaya 55

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 1

वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि

तं च ब्रूहि नरश्रेष्ठ सर्वं संपादयामि ते

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 2

यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव

कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम्

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 3

शयनं चैकपार्श्वेन दिवसानेकविंशतिम्

अकिंचिदुक्त्वा गमनं बहिश्च मुनिपुंगव

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 4

अन्तर्धानमकस्माच्च पुनरेव च दर्शनम्

पुनश्च शयनं विप्र दिवसानेकविंशतिम्

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 5

तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम

समुपानीय विविधं यद्दग्धं जातवेदसा

निर्याणं च रथेनाशु सहसा यत्कृतं त्वया

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 6

धनानां च विसर्गस्य वनस्यापि च दर्शनम्

प्रासादानां बहूनां च काञ्चनानां महामुने

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 7

मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम्

पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम्

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 8

अतीव ह्यत्र मुह्यामि चिन्तयानो दिवानिशम्

न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम्

एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 9

शृणु सर्वमशेषेण यदिदं येन हेतुना

न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 10

पितामहस्य वदतः पुरा देवसमागमे

श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 11

ब्रह्मक्षत्रविरोधेन भविता कुलसंकरः

पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 12

ततः स्वकुलरक्षार्थमहं त्वा समुपागमम्

चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 13

ततोऽहमागम्य पुरा त्वामवोचं महीपते

नियमं कंचिदारप्स्ये शुश्रूषा क्रियतामिति

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 14

न च ते दुष्कृतं किंचिदहमासादयं गृहे

तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 15

एतां बुद्धिं समास्थाय दिवसानेकविंशतिम्

सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 16

यदा त्वया सभार्येण संसुप्तो न प्रबोधितः

अहं तदैव ते प्रीतो मनसा राजसत्तम

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 17

उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते

पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 18

अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहे

योगमास्थाय संविष्टो दिवसानेकविंशतिम्

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 19

क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप

एतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 20

न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव

सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम्

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 21

भोजनं च समानाय्य यत्तदादीपितं मया

क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 22

ततोऽहं रथमारुह्य त्वामवोचं नराधिप

सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 23

अविशङ्को नरपते प्रीतोऽहं चापि तेन ते

धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत्

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 24

ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव

सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 25

प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम्

यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम्

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 26

स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव

मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 27

निदर्शनार्थं तपसो धर्मस्य च नराधिप

तत्र यासीत्स्पृहा राजंस्तच्चापि विदितं मम

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 28

ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते

अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 29

एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम्

ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता

Mahabharata

Anushasana Parva, Adhyaya 55, Verse 30

भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः

तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति