Mahabharata

Anushasana Parva, Adhyaya 53

Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 1

तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा

भार्या चास्य महाभागा तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 2

अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया

परिश्रान्तो निववृते व्रीडितो नष्टचेतनः

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 3

स प्रविश्य पुरीं दीनो नाभ्यभाषत किंचन

तदेव चिन्तयामास च्यवनस्य विचेष्टितम्

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 4

अथ शून्येन मनसा प्रविवेश गृहं नृपः

ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम्

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 5

विस्मितौ तौ तु दृष्ट्वा तं तदाश्चर्यं विचिन्त्य च

दर्शनात्तस्य च मुनेर्विश्रान्तौ संबभूवतुः

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 6

यथास्थानं तु तौ स्थित्वा भूयस्तं संववाहतुः

अथापरेण पार्श्वेन सुष्वाप स महामुनिः

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 7

तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान्

न च तौ चक्रतुः किंचिद्विकारं भयशङ्कितौ

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 8

प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशां पते

तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 9

तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ

शतपाकेन तैलेन महार्हेणोपतस्थतुः

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 10

ततः सुखासीनमृषिं वाग्यतौ संववाहतुः

न च पर्याप्तमित्याह भार्गवः सुमहातपाः

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 11

यदा तौ निर्विकारौ तु लक्षयामास भार्गवः

तत उत्थाय सहसा स्नानशालां विवेश ह

कॢप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम्

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 12

असत्कृत्य तु तत्सर्वं तत्रैवान्तरधीयत

स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा

नासूयां चक्रतुस्तौ च दंपती भरतर्षभ

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 13

अथ स्नातः स भगवान्सिंहासनगतः प्रभुः

दर्शयामास कुशिकं सभार्यं भृगुनन्दनः

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 14

संहृष्टवदनो राजा सभार्यः कुशिको मुनिम्

सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत्

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 15

आनीयतामिति मुनिस्तं चोवाच नराधिपम्

राजा च समुपाजह्रे तदन्नं सह भार्यया

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 16

मांसप्रकारान्विविधाञ्शाकानि विविधानि च

वेसवारविकारांश्च पानकानि लघूनि च

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 17

रसालापूपकांश्चित्रान्मोदकानथ षाडवान्

रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम्

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 18

फलानि च विचित्राणि तथा भोज्यानि भूरिशः

बदरेङ्गुदकाश्मर्यभल्लातकवटानि च

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 19

गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम्

सर्वमाहारयामास राजा शापभयान्मुनेः

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 20

अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत्

ततः सर्वं समानीय तच्च शय्यासनं मुनिः

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 21

वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह

सर्वमादीपयामास च्यवनो भृगुनन्दनः

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 22

न च तौ चक्रतुः कोपं दंपती सुमहाव्रतौ

तयोः संप्रेक्षतोरेव पुनरन्तर्हितोऽभवत्

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 23

तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदा

सभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत्

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 24

नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि

शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 25

वस्त्रं च विविधाकारमभवत्समुपार्जितम्

न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 26

पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम्

सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम्

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 27

तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम्

क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 28

इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचः

च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम्

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 29

सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको मतः

सायुधः सपताकश्च सशक्तिः कणयष्टिमान्

Mahabharata

Anushasana Parva, Adhyaya 53, Verse 30

किङ्किणीशतनिर्घोषो युक्तस्तोमरकल्पनैः

गदाखड्गनिबद्धश्च परमेषुशतान्वितः