Mahabharata

Anushasana Parva, Adhyaya 51

Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 1

नहुषस्तु ततः श्रुत्वा च्यवनं तं तथागतम्

त्वरितः प्रययौ तत्र सहामात्यपुरोहितः

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 2

शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः

आत्मानमाचचक्षे च च्यवनाय महात्मने

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 3

अर्चयामास तं चापि तस्य राज्ञः पुरोहितः

सत्यव्रतं महाभागं देवकल्पं विशां पते

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 4

करवाणि प्रियं किं ते तन्मे व्याख्यातुमर्हसि

सर्वं कर्तास्मि भगवन्यद्यपि स्यात्सुदुष्करम्

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 5

श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः

मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 6

सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित

निष्क्रयार्थं भगवतो यथाह भृगुनन्दनः

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 7

सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप

सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 8

सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम्

स्यादेतत्तु भवेन्मूल्यं किं वान्यन्मन्यते भवान्

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 9

नाहं शतसहस्रेण निमेयः पार्थिवर्षभ

दीयतां सदृशं मूल्यममात्यैः सह चिन्तय

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 10

कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित

यदेतदपि नौपम्यमतो भूयः प्रदीयताम्

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 11

राजन्नार्हाम्यहं कोटिं भूयो वापि महाद्युते

सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 12

अर्धराज्यं समग्रं वा निषादेभ्यः प्रदीयताम्

एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विज

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 13

अर्धराज्यं समग्रं वा नाहमर्हामि पार्थिव

सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम्

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 14

महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः

स चिन्तयामास तदा सहामात्यपुरोहितः

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 15

तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः

नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 16

स समाभाष्य राजानमब्रवीद्द्विजसत्तमः

तोषयिष्याम्यहं विप्रं यथा तुष्टो भविष्यति

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 17

नाहं मिथ्यावचो ब्रूयां स्वैरेष्वपि कुतोऽन्यथा

भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 18

ब्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः

परित्रायस्व मामस्माद्विषयं च कुलं च मे

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 19

हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम्

किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम्

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 20

अगाधेऽम्भसि मग्नस्य सामात्यस्य सहर्त्विजः

प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम्

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 21

नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान्

उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम्

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 22

अनर्घेया महाराज द्विजा वर्णमहत्तमाः

गावश्च पृथिवीपाल गौर्मूल्यं परिकल्प्यताम्

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 23

नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप

हर्षेण महता युक्तः सहामात्यपुरोहितः

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 24

अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम्

इदं प्रोवाच नृपते वाचा संतर्पयन्निव

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 25

उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव

एतन्मूल्यमहं मन्ये तव धर्मभृतां वर

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 26

उत्तिष्ठाम्येष राजेन्द्र सम्यक्क्रीतोऽस्मि तेऽनघ

गोभिस्तुल्यं न पश्यामि धनं किंचिदिहाच्युत

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 27

कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव

गवां प्रशस्यते वीर सर्वपापहरं शिवम्

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 28

गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते

अन्नमेव सदा गावो देवानां परमं हविः

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 29

स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ

गावो यज्ञप्रणेत्र्यो वै तथा यज्ञस्य ता मुखम्

Mahabharata

Anushasana Parva, Adhyaya 51, Verse 30

अमृतं ह्यक्षयं दिव्यं क्षरन्ति च वहन्ति च

अमृतायतनं चैताः सर्वलोकनमस्कृताः