Mahabharata

Anushasana Parva, Adhyaya 49

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 1

ब्रूहि पुत्रान्कुरुश्रेष्ठ वर्णानां त्वं पृथक्पृथक्

कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 2

विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताः

अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 3

आत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यः

नियुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 4

पतितस्य च भार्यायां भर्त्रा सुसमवेतया

तथा दत्तकृतौ पुत्रावध्यूढश्च तथापरः

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 5

षडपध्वंसजाश्चापि कानीनापसदास्तथा

इत्येते ते समाख्यातास्तान्विजानीहि भारत

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 6

षडपध्वंसजाः के स्युः के वाप्यपसदास्तथा

एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 7

त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर

वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 8

एको द्विवर्ण एवाथ तथात्रैवोपलक्षितः

षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 9

चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु च

वैश्यायां चैव शूद्रस्य लक्ष्यन्तेऽपसदास्त्रयः

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 10

मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ

ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 11

ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः

पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 12

क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम्

तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 13

रेतजो वा भवेत्पुत्रस्त्यक्तो वा क्षेत्रजो भवेत्

अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 14

रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम्

अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम्

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 15

आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे

न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत्

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 16

पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते

तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 17

अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ

न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 18

कश्चिच्च कृतकः पुत्रः संग्रहादेव लक्ष्यते

न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 19

कीदृशः कृतकः पुत्रः संग्रहादेव लक्ष्यते

शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 20

मातापितृभ्यां संत्यक्तं पथि यं तु प्रलक्षयेत्

न चास्य मातापितरौ ज्ञायेते स हि कृत्रिमः

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 21

अस्वामिकस्य स्वामित्वं यस्मिन्संप्रतिलक्षयेत्

सवर्णस्तं च पोषेत सवर्णस्तस्य जायते

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 22

कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम्

देया कन्या कथं चेति तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 23

आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 24

त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते

तद्गोत्रवर्णतस्तस्य कुर्यात्संस्कारमच्युत

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 25

अथ देया तु कन्या स्यात्तद्वर्णेन युधिष्ठिर

संस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चये

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 26

कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौ

तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 27

क्षेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्यथ

आत्मवद्वै प्रयुञ्जीरन्संस्कारं ब्राह्मणादयः

Mahabharata

Anushasana Parva, Adhyaya 49, Verse 28

धर्मशास्त्रेषु वर्णानां निश्चयोऽयं प्रदृश्यते

एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि