Anushasana Parva, Adhyaya 48, Verse 1
अर्थाश्रयाद्वा कामाद्वा वर्णानां वाप्यनिश्चयात्
अज्ञानाद्वापि वर्णानां जायते वर्णसंकरः
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
अर्थाश्रयाद्वा कामाद्वा वर्णानां वाप्यनिश्चयात्
अज्ञानाद्वापि वर्णानां जायते वर्णसंकरः
तेषामेतेन विधिना जातानां वर्णसंकरे
को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह
चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम्
असृजत्स ह यज्ञार्थे पूर्वमेव प्रजापतिः
भार्याश्चतस्रो विप्रस्य द्वयोरात्मास्य जायते
आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः
परं शवाद्ब्राह्मणस्यैष पुत्रः; शूद्रापुत्रं पारशवं तमाहुः
शुश्रूषकः स्वस्य कुलस्य स स्या;त्स्वं चारित्रं नित्यमथो न जह्यात्
सर्वानुपायानपि संप्रधार्य; समुद्धरेत्स्वस्य कुलस्य तन्तुम्
ज्येष्ठो यवीयानपि यो द्विजस्य; शुश्रूषवान्दानपरायणः स्यात्
तिस्रः क्षत्रियसंबन्धाद्द्वयोरात्मास्य जायते
हीनवर्णस्तृतीयायां शूद्र उग्र इति स्मृतः
द्वे चापि भार्ये वैश्यस्य द्वयोरात्मास्य जायते
शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते
अतो विशिष्टस्त्वधमो गुरुदारप्रधर्षकः
बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम्
अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम्
वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम्
शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम्
ब्राह्मण्यां संप्रजायन्त इत्येते कुलपांसनाः
एते मतिमतां श्रेष्ठ वर्णसंकरजाः प्रभो
बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः
शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात्
शूद्रादायोगवश्चापि वैश्यायां ग्रामधर्मिणः
ब्राह्मणैरप्रतिग्राह्यस्तक्षा स वनजीवनः
एतेऽपि सदृशं वर्णं जनयन्ति स्वयोनिषु
मातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु
यथा चतुर्षु वर्णेषु द्वयोरात्मास्य जायते
आनन्तर्यात्तु जायन्ते तथा बाह्याः प्रधानतः
ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु
परस्परस्य वर्तन्तो जनयन्ति विगर्हितान्
यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते
एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रसूयते
प्रतिलोमं तु वर्तन्तो बाह्याद्बाह्यतरं पुनः
हीना हीनात्प्रसूयन्ते वर्णाः पञ्चदशैव ते
अगम्यागमनाच्चैव वर्तते वर्णसंकरः
व्रात्यानामत्र जायन्ते सैरन्ध्रा मागधेषु च
प्रसाधनोपचारज्ञमदासं दासजीवनम्
अतश्चायोगवं सूते वागुरावनजीवनम्
मैरेयकं च वैदेहः संप्रसूतेऽथ माधुकम्
निषादो मुद्गरं सूते दाशं नावोपजीविनम्
मृतपं चापि चण्डालः श्वपाकमतिकुत्सितम्
चतुरो मागधी सूते क्रूरान्मायोपजीविनः
मांसस्वादुकरं सूदं सौगन्धमिति संज्ञितम्
वैदेहकाच्च पापिष्ठं क्रूरं भार्योपजीविनम्
निषादान्मद्रनाभं च खरयानप्रयायिनम्
चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम्
मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम्
आयोगवीषु जायन्ते हीनवर्णासु ते त्रयः
क्षुद्रो वैदेहकादन्ध्रो बहिर्ग्रामप्रतिश्रयः
कारावरो निषाद्यां तु चर्मकारात्प्रजायते
चण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान्
आहिण्डिको निषादेन वैदेह्यां संप्रजायते
चण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान्
निषादी चापि चण्डालात्पुत्रमन्तावसायिनम्
श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम्
इत्येताः संकरे जात्यः पितृमातृव्यतिक्रमात्
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः
चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते
वर्णानां धर्महीनेषु संज्ञा नास्तीह कस्यचित्