Mahabharata

Anushasana Parva, Adhyaya 47

Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 1

सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम

अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 2

कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह

अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम्

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 3

यथा नरेण कर्तव्यं यश्च धर्मः सनातनः

एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 4

चतस्रो विहिता भार्या ब्राह्मणस्य पितामह

ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 5

तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम

आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 6

केन वा किं ततो हार्यं पितृवित्तात्पितामह

एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 7

ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः

एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 8

वैषम्यादथ वा लोभात्कामाद्वापि परंतप

ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 9

शूद्रां शयनमारोप्य ब्राह्मणः पीडितो भवेत्

प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 10

तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर

अतस्ते नियमं वित्ते संप्रवक्ष्यामि भारत

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 11

लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत्

ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात्

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 12

शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर

तत्र तेनैव हर्तव्याश्चत्वारोंऽशाः पितुर्धनात्

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 13

क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः

स तु मातृविशेषेण त्रीनंशान्हर्तुमर्हति

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 14

वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि

द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 15

शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः

अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 16

दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः

सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत्

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 17

अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात्

त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत्

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 18

स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते

हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात्

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 19

तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति

अवश्यं हि धनं देयं शूद्रापुत्राय भारत

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 20

आनृशंस्यं परो धर्म इति तस्मै प्रदीयते

यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 21

यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत्

नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 22

त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु

यजेत तेन द्रव्येण न वृथा साधयेद्धनम्

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 23

त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै

तच्च भर्त्रा धनं दत्तं नादत्तं भोक्तुमर्हति

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 24

स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम्

नापहारं स्त्रियः कुर्युः पतिवित्तात्कथंचन

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 25

स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर

ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा

सा हि पुत्रसमा राजन्विहिता कुरुनन्दन

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 26

एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ

एतद्धर्ममनुस्मृत्य न वृथा साधयेद्धनम्

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 27

शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः

केन प्रतिविशेषेण दशमोऽप्यस्य दीयते

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 28

ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः

क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 29

कस्मात्ते विषमं भागं भजेरन्नृपसत्तम

यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति

Mahabharata

Anushasana Parva, Adhyaya 47, Verse 30

दारा इत्युच्यते लोके नाम्नैकेन परंतप

प्रोक्तेन चैकनाम्नायं विशेषः सुमहान्भवेत्