Anushasana Parva, Adhyaya 46, Verse 1
प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः
यस्याः किंचिन्नाददते ज्ञातयो न स विक्रयः
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः
यस्याः किंचिन्नाददते ज्ञातयो न स विक्रयः
अर्हणं तत्कुमारीणामानृशंस्यतमं च तत्
सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः
पितृभिर्भ्रातृभिश्चैव श्वशुरैरथ देवरैः
पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः
यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत्
अमोदनात्पुनः पुंसः प्रजनं न प्रवर्धते
पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप
अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः
तदैव तत्कुलं नास्ति यदा शोचन्ति जामयः
जामीशप्तानि गेहानि निकृत्तानीव कृत्यया
नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव
स्त्रियः पुंसां परिददे मनुर्जिगमिषुर्दिवम्
अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः
ईर्ष्यवो मानकामाश्च चण्डा असुहृदोऽबुधाः
स्त्रियो माननमर्हन्ति ता मानयत मानवाः
स्त्रीप्रत्ययो हि वो धर्मो रतिभोगाश्च केवलाः
परिचर्यान्नसंस्कारास्तदायत्ता भवन्तु वः
उत्पादनमपत्यस्य जातस्य परिपालनम्
प्रीत्यर्थं लोकयात्रा च पश्यत स्त्रीनिबन्धनम्
संमान्यमानाश्चैताभिः सर्वकार्याण्यवाप्स्यथ
विदेहराजदुहिता चात्र श्लोकमगायत
नास्ति यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम्
धर्मस्तु भर्तृशुश्रूषा तया स्वर्गं जयत्युत
पिता रक्षति कौमारे भर्ता रक्षति यौवने
पुत्रास्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति
श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता
लालिता निगृहीता च स्त्री श्रीर्भवति भारत