Anushasana Parva, Adhyaya 45, Verse 1
कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन
तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन
तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह
यापुत्रकस्याप्यरिक्थस्य प्रतिपत्सा तदा भवेत्
अथ चेत्साहरेच्छुल्कं क्रीता शुल्कप्रदस्य सा
तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात्
न तस्या मन्त्रवत्कार्यं कश्चित्कुर्वीत किंचन
स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यत
तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः
एतत्तु नापरे चक्रुर्न परे जातु साधवः
साधूनां पुनराचारो गरीयो धर्मलक्षणम्
अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत्
नप्ता विदेहराजस्य जनकस्य महात्मनः
असदाचरिते मार्गे कथं स्यादनुकीर्तनम्
अनुप्रश्नः संशयो वा सतामेतदुपालभेत्
असदेव हि धर्मस्य प्रमादो धर्म आसुरः
नानुशुश्रुम जात्वेतामिमां पूर्वेषु जन्मसु
भार्यापत्योर्हि संबन्धः स्त्रीपुंसोस्तुल्य एव सः
रतिः साधारणो धर्म इति चाह स पार्थिवः
अथ केन प्रमाणेन पुंसामादीयते धनम्
पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत्
मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः
दौहित्र एव वा रिक्थमपुत्रस्य पितुर्हरेत्
ददाति हि स पिण्डं वै पितुर्मातामहस्य च
पुत्रदौहित्रयोर्नेह विशेषो धर्मतः स्मृतः
अन्यत्र जातया सा हि प्रजया पुत्र ईहते
दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते
दौहित्रकेण धर्मेण नात्र पश्यामि कारणम्
विक्रीतासु च ये पुत्रा भवन्ति पितुरेव ते
असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः
आसुरादधिसंभूता धर्माद्विषमवृत्तयः
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः
धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु
यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति
कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति
सप्तावरे महाघोरे निरये कालसाह्वये
स्वेदं मूत्रं पुरीषं च तस्मिन्प्रेत उपाश्नुते
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत्
अल्पं वा बहु वा राजन्विक्रयस्तावदेव सः
यद्यप्याचरितः कैश्चिन्नैष धर्मः कथंचन
अन्येषामपि दृश्यन्ते लोभतः संप्रवृत्तयः
वश्यां कुमारीं विहितां ये च तामुपभुञ्जते
एते पापस्य कर्तारस्तमस्यन्धेऽथ शेरते
अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः
अधर्ममूलैर्हि धनैर्न तैरर्थोऽस्ति कश्चन