Mahabharata

Anushasana Parva, Adhyaya 43

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 1

तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत्

देवशर्मा महातेजा यत्तच्छृणु नराधिप

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 2

किं ते विपुल दृष्टं वै तस्मिन्नद्य महावने

ते त्वा जानन्ति निपुण आत्मा च रुचिरेव च

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 3

ब्रह्मर्षे मिथुनं किं तत्के च ते पुरुषा विभो

ये मां जानन्ति तत्त्वेन तांश्च मे वक्तुमर्हसि

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 4

यद्वै तन्मिथुनं ब्रह्मन्नहोरात्रं हि विद्धि तत्

चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम्

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 5

ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत्

ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम्

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 6

न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत्

नरो रहसि पापात्मा पापकं कर्म वै द्विज

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 7

कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा

पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 8

ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम्

स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान्भवान्

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 9

अहोरात्रं विजानाति ऋतवश्चापि नित्यशः

पुरुषे पापकं कर्म शुभं वा शुभकर्मणः

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 10

तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम्

नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 11

ते चैव हि भवेयुस्ते लोकाः पापकृतो यथा

कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम्

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 12

तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज

न च त्वं कृतवान्किंचिदागः प्रीतोऽस्मि तेन ते

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 13

यदि त्वहं त्वा दुर्वृत्तमद्राक्षं द्विजसत्तम

शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 14

सज्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः

अन्यथा रक्षतः शापोऽभविष्यत्ते गतिश्च सा

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 15

रक्षिता सा त्वया पुत्र मम चापि निवेदिता

अहं ते प्रीतिमांस्तात स्वस्ति स्वर्गं गमिष्यसि

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 16

इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः

मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 17

इदमाख्यातवांश्चापि ममाख्यानं महामुनिः

मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 18

तस्माद्ब्रवीमि पार्थ त्वा स्त्रियः सर्वाः सदैव च

उभयं दृश्यते तासु सततं साध्वसाधु च

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 19

स्त्रियः साध्व्यो महाभागाः संमता लोकमातरः

धारयन्ति महीं राजन्निमां सवनकाननाम्

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 20

असाध्व्यश्चापि दुर्वृत्ताः कुलघ्न्यः पापनिश्चयाः

विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 21

एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः

अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 22

एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः

नासामस्ति प्रियो नाम मैथुने संगमे नृभिः

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 23

एताः कृत्याश्च कार्याश्च कृताश्च भरतर्षभ

न चैकस्मिन्रमन्त्येताः पुरुषे पाण्डुनन्दन

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 24

नासु स्नेहो नृभिः कार्यस्तथैवेर्ष्या जनेश्वर

खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव हि

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 25

विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन

सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते

Mahabharata

Anushasana Parva, Adhyaya 43, Verse 26

तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः

नान्यः शक्तो नृलोकेऽस्मिन्रक्षितुं नृप योषितः