Anushasana Parva, Adhyaya 41, Verse 1
ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः
इदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम्
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः
इदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम्
रूपमप्रतिमं कृत्वा लोभनीयं जनाधिप
दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम्
स ददर्श तमासीनं विपुलस्य कलेवरम्
निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा
रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम्
पद्मपत्रविशालाक्षीं संपूर्णेन्दुनिभाननाम्
सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह
रूपेण विस्मिता कोऽसीत्यथ वक्तुमिहेच्छती
उत्थातुकामापि सती व्यतिष्ठद्विपुलेन सा
निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम्
तामाबभाषे देवेन्द्रः साम्ना परमवल्गुना
त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते
क्लिश्यमानमनङ्गेन त्वत्संकल्पोद्भवेन वै
तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते
तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः
गुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम्
न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता
वक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा
आकारं गुरुपत्न्यास्तु विज्ञाय स भृगूद्वहः
निजग्राह महातेजा योगेन बलवत्प्रभो
बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः
तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः
उवाच व्रीडितो राजंस्तां योगबलमोहिताम्
एह्येहीति ततः सा तं प्रतिवक्तुमियेष च
स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत्
भोः किमागमने कृत्यमिति तस्याश्च निःसृता
वक्त्राच्छशाङ्कप्रतिमाद्वाणी संस्कारभूषिता
व्रीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा
पुरंदरश्च संत्रस्तो बभूव विमनास्तदा
स तद्वैकृतमालक्ष्य देवराजो विशां पते
अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा
ददर्श च मुनिं तस्याः शरीरान्तरगोचरम्
प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम्
स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः
प्रावेपत सुसंत्रस्तः शापभीतस्तदा विभो
विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः
स्वं कलेवरमाविश्य शक्रं भीतमथाब्रवीत्
अजितेन्द्रिय पापात्मन्कामात्मक पुरंदर
न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा
किं नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम्
गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः
जाने त्वां बालिशमतिमकृतात्मानमस्थिरम्
मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम्
नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा
कृपायमाणस्तु न ते दग्धुमिच्छामि वासव
स च घोरतपा धीमान्गुरुर्मे पापचेतसम्
दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा
नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः
मा गमः ससुतामात्योऽत्ययं ब्रह्मबलार्दितः
अमरोऽस्मीति यद्बुद्धिमेतामास्थाय वर्तसे
मावमंस्था न तपसामसाध्यं नाम किंचन
तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः
अकिंचिदुक्त्वा व्रीडितस्तत्रैवान्तरधीयत
मुहूर्तयाते शक्रे तु देवशर्मा महातपाः
कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम्
आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत्
रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम्
अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः
विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः