Mahabharata

Anushasana Parva, Adhyaya 40

Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 1

एवमेतन्महाबाहो नात्र मिथ्यास्ति किंचन

यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 2

अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्

यथा रक्षा कृता पूर्वं विपुलेन महात्मना

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 3

प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ

यदर्थं तच्च ते तात प्रवक्ष्ये वसुधाधिप

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 4

न हि स्त्रीभ्य परं पुत्र पापीयः किंचिदस्ति वै

अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो

क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 5

इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम्

स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम्

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 6

अथाभ्यगच्छन्देवास्ते पितामहमरिंदम

निवेद्य मानसं चापि तूष्णीमासन्नवाङ्मुखाः

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 7

तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः

मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 8

पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन्

असाध्व्यस्तु समुत्पन्ना कृत्या सर्गात्प्रजापतेः

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 9

ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः

ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस्तदा

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 10

क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः

असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 11

न च स्त्रीणां क्रिया काचिदिति धर्मो व्यवस्थितः

निरिन्द्रिया अमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 12

शय्यासनमलंकारमन्नपानमनार्यताम्

दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 13

न तासां रक्षणं कर्तुं शक्यं पुंसा कथंचन

अपि विश्वकृता तात कुतस्तु पुरुषैरिह

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 14

वाचा वा वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा

न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 15

इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम्

यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 16

ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः

तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 17

तस्य रूपेण संमत्ता देवगन्धर्वदानवाः

विशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 18

नारीणां चरितज्ञश्च देवशर्मा महामुनिः

यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 19

पुरंदरं च जानीते परस्त्रीकामचारिणम्

तस्माद्यत्नेन भार्याया रक्षणं स चकार ह

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 20

स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा

भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत्

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 21

रक्षाविधानं मनसा स विचिन्त्य महातपाः

आहूय दयितं शिष्यं विपुलं प्राह भार्गवम्

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 22

यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः

पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम्

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 23

अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम्

स हि रूपाणि कुरुते विविधानि भृगूद्वह

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 24

इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः

सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 25

धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत

पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम्

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 26

कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने

वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 27

ततः स भगवांस्तस्मै विपुलाय महात्मने

आचचक्षे यथातत्त्वं मायां शक्रस्य भारत

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 28

बहुमायः स विप्रर्षे बलहा पाकशासनः

तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 29

किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलः

भवत्यथ मुहूर्तेन चण्डालसमदर्शनः

Mahabharata

Anushasana Parva, Adhyaya 40, Verse 30

शिखी जटी चीरवासाः पुनर्भवति पुत्रक

बृहच्छरीरश्च पुनः पीवरोऽथ पुनः कृशः