Anushasana Parva, Adhyaya 39, Verse 1
इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः
मोहेन परमाविष्टा दैवादिष्टेन पार्थिव
स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम्
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः
मोहेन परमाविष्टा दैवादिष्टेन पार्थिव
स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम्
अत्र मे संशयस्तीव्रो हृदि संपरिवर्तते
कथमासां नराः सङ्गं कुर्वते कुरुनन्दन
स्त्रियो वा तेषु रज्यन्ते विरज्यन्तेऽथ वा पुनः
इति ताः पुरुषव्याघ्र कथं शक्याः स्म रक्षितुम्
प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि
एता हि मयमायाभिर्वञ्चयन्तीह मानवान्
न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः
गावो नवतृणानीव गृह्णन्त्येव नवान्नवान्
शम्बरस्य च या माया या माया नमुचेरपि
बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः
स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः
अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम्
इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह
स्त्रीणां बुद्ध्युपनिष्कर्षादर्थशास्त्राणि शत्रुहन्
बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै
संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु
अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः
कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान्
तन्मे ब्रूहि महाबाहो कुरूणां वंशवर्धन
यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथंचन
कर्तुं वा कृतपूर्वा वा तन्मे व्याख्यातुमर्हसि