Mahabharata

Anushasana Parva, Adhyaya 38

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 1

स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम

स्त्रियो हि मूलं दोषाणां लघुचित्ताः पितामह

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

नारदस्य च संवादं पुंश्चल्या पञ्चचूडया

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 3

लोकाननुचरन्धीमान्देवर्षिर्नारदः पुरा

ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम्

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 4

तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः

संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 5

एवमुक्ता तु सा विप्रं प्रत्युवाचाथ नारदम्

विषये सति वक्ष्यामि समर्थां मन्यसे च माम्

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 6

न त्वामविषये भद्रे नियोक्ष्यामि कथंचन

स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 7

एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा

प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 8

विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः

न मामर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 9

तामुवाच स देवर्षिः सत्यं वद सुमध्यमे

मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 10

इत्युक्ता सा कृतमतिरभवच्चारुहासिनी

स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं संप्रचक्रमे

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 11

कुलीना रूपवत्यश्च नाथवत्यश्च योषितः

मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 12

न स्त्रीभ्यः किंचिदन्यद्वै पापीयस्तरमस्ति वै

स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 13

समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान्

पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम्

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 14

असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो

पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 15

स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति

ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 16

अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च

मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 17

नासां कश्चिदगम्योऽस्ति नासां वयसि संस्थितिः

विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 18

न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथंचन

न ज्ञातिकुलसंबन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 19

यौवने वर्तमानानां मृष्टाभरणवाससाम्

नारीणां स्वैरवृत्तानां स्पृहयन्ति कुलस्त्रियः

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 20

याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः

अपि ताः संप्रसज्जन्ते कुब्जान्धजडवामनैः

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 21

पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः

स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 22

यदि पुंसां गतिर्ब्रह्म कथंचिन्नोपपद्यते

अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 23

अलाभात्पुरुषाणां हि भयात्परिजनस्य च

वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 24

चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा

प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 25

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः

नान्तकः सर्वभूतानां न पुंसां वामलोचनाः

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 26

इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम्

दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियः

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 27

कामानामपि दातारं कर्तारं मानसान्त्वयोः

रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 28

न कामभोगान्बहुलान्नालंकारार्थसंचयान्

तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम्

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 29

अन्तकः शमनो मृत्युः पातालं वडवामुखम्

क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः

Mahabharata

Anushasana Parva, Adhyaya 38, Verse 30

यतश्च भूतानि महान्ति पञ्च; यतश्च लोका विहिता विधात्रा

यतः पुमांसः प्रमदाश्च निर्मिता;स्तदैव दोषाः प्रमदासु नारद