Mahabharata

Anushasana Parva, Adhyaya 37

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 1

अपूर्वं वा भवेत्पात्रमथ वापि चिरोषितम्

दूरादभ्यागतं वापि किं पात्रं स्यात्पितामह

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 2

क्रिया भवति केषांचिदुपांशुव्रतमुत्तमम्

यो यो याचेत यत्किंचित्सर्वं दद्याम इत्युत

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 3

अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम

पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 4

अपूर्वं वापि यत्पात्रं यच्चापि स्याच्चिरोषितम्

दूरादभ्यागतं चापि तत्पात्रं च विदुर्बुधाः

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 5

अपीडया च भृत्यानां धर्मस्याहिंसया तथा

पात्रं विद्याम तत्त्वेन यस्मै दत्तं न संतपेत्

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 6

ऋत्विक्पुरोहिताचार्याः शिष्याः संबन्धिबान्धवाः

सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 7

अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम्

तस्मान्नित्यं परीक्षेत पुरुषान्प्रणिधाय वै

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 8

अक्रोधः सत्यवचनमहिंसा दम आर्जवम्

अद्रोहो नातिमानश्च ह्रीस्तितिक्षा तपः शमः

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 9

यस्मिन्नेतानि दृश्यन्ते न चाकार्याणि भारत

भावतो विनिविष्टानि तत्पात्रं मानमर्हति

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 10

तथा चिरोषितं चापि संप्रत्यागतमेव च

अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 11

अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम्

सर्वत्र चानवस्थानमेतन्नाशनमात्मनः

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 12

भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः

आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम्

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 13

हेतुवादान्ब्रुवन्सत्सु विजेताहेतुवादिकः

आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 14

सर्वाभिशङ्की मूढश्च बालः कटुकवागपि

बोद्धव्यस्तादृशस्तात नरश्वानं हि तं विदुः

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 15

यथा श्वा भषितुं चैव हन्तुं चैवावसृज्यते

एवं संभाषणार्थाय सर्वशास्त्रवधाय च

अल्पश्रुताः कुतर्काश्च दृष्टाः स्पृष्टाः कुपण्डिताः

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 16

श्रुतिस्मृतीतिहासादिपुराणारण्यवेदिनः

अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञांश्चैव पण्डितान्

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 17

लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च

एवं नरो वर्तमानः शाश्वतीरेधते समाः

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 18

ऋणमुन्मुच्य देवानामृषीणां च तथैव च

पितॄणामथ विप्राणामतिथीनां च पञ्चमम्

Mahabharata

Anushasana Parva, Adhyaya 37, Verse 19

पर्यायेण विशुद्धेन सुनिर्णिक्तेन कर्मणा

एवं गृहस्थः कर्माणि कुर्वन्धर्मान्न हीयते