Anushasana Parva, Adhyaya 36, Verse 1
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शक्रशम्बरसंवादं तन्निबोध युधिष्ठिर
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शक्रशम्बरसंवादं तन्निबोध युधिष्ठिर
शक्रो ह्यज्ञातरूपेण जटी भूत्वा रजोरुणः
विरूपं रूपमास्थाय प्रश्नं पप्रच्छ शम्बरम्
केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि
श्रेष्ठं त्वां केन मन्यन्ते तन्मे प्रब्रूहि पृच्छतः
नासूयामि सदा विप्रान्ब्रह्माणं च पितामहम्
शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम्
श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित्
अभ्यर्च्याननुपृच्छामि पादौ गृह्णामि धीमताम्
ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा
प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि
ते मा शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम्
समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः
यच्च भाषन्ति ते तुष्टास्तत्तद्गृह्णामि मेधया
समाधिमात्मनो नित्यमनुलोममचिन्तयन्
सोऽहं वागग्रसृष्टानां रसानामवलेहकः
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम्
यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते
एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा
युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत
दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम्
पर्यपृच्छत्कथमिमे सिद्धा इति निशाकरम्
ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा
भुजवीर्या हि राजानो वागस्त्राश्च द्विजातयः
प्रवसन्वाप्यधीयीत बह्वीर्दुर्वसतीर्वसन्
निर्मन्युरपि निर्मानो यतिः स्यात्समदर्शनः
अपि चेज्जातिसंपन्नः सर्वान्वेदान्पितुर्गृहे
श्लाघमान इवाधीयेद्ग्राम्य इत्येव तं विदुः
भूमिरेतौ निगिरति सर्पो बिलशयानिव
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम्
अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः
इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात्
ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान्
श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम्
द्विजान्संपूजयामास महेन्द्रत्वमवाप च