Mahabharata

Anushasana Parva, Adhyaya 35

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 1

जन्मनैव महाभागो ब्राह्मणो नाम जायते

नमस्यः सर्वभूतानामतिथिः प्रसृताग्रभुक्

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 2

सर्वान्नः सुहृदस्तात ब्राह्मणाः सुमनोमुखाः

गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 3

सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः

गीर्भिर्दारुणयुक्ताभिरभिहन्युरपूजिताः

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 4

अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः

सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत्

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 5

न वोऽन्यदिह कर्तव्यं किंचिदूर्ध्वं यथाविधि

गुप्ता गोपायत ब्रह्म श्रेयो वस्तेन शोभनम्

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 6

स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति

प्रमाणं सर्वभूतानां प्रग्रहं च गमिष्यथ

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 7

न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता

शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 8

श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी

स्वाध्यायेनैव माहात्म्यं विमलं प्रतिपत्स्यथ

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 9

हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः

अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्म्यानुकल्पिताः

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 10

श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया

दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 11

यच्चैव मानुषे लोके यच्च देवेषु किंचन

सर्वं तत्तपसा साध्यं ज्ञानेन विनयेन च

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 12

इत्येता ब्रह्मगीतास्ते समाख्याता मयानघ

विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 13

भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः

दुरासदाश्च चण्डाश्च रभसाः क्षिप्रकारिणः

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 14

सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथापरे

वराहमृगसत्त्वाश्च गजसत्त्वास्तथापरे

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 15

कर्पासमृदवः केचित्तथान्ये मकरस्पृशः

विभाष्यघातिनः केचित्तथा चक्षुर्हणोऽपरे

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 16

सन्ति चाशीविषनिभाः सन्ति मन्दास्तथापरे

विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 17

मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिरास्तथा

शौण्डिका दरदा दर्वाश्चौराः शबरबर्बराः

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 18

किराता यवनाश्चैव तास्ताः क्षत्रियजातयः

वृषलत्वमनुप्राप्ता ब्राह्मणानामदर्शनात्

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 19

ब्राह्मणानां परिभवादसुराः सलिलेशयाः

ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 20

अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः

अवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 21

न ब्राह्मणविरोधेन शक्या शास्तुं वसुंधरा

ब्राह्मणा हि महात्मानो देवानामपि देवताः

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 22

तान्पूजयस्व सततं दानेन परिचर्यया

यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम्

Mahabharata

Anushasana Parva, Adhyaya 35, Verse 23

प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ

प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वयानघ