Mahabharata

Anushasana Parva, Adhyaya 33

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 1

किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह

किं कुर्वन्कर्म नृपतिरुभौ लोकौ समश्नुते

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 2

एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत

ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता

श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत्

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 3

पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान्

सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत्

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 4

एतत्कृत्यतमं राज्ञो नित्यमेवेति लक्षयेत्

यथात्मानं यथा पुत्रांस्तथैतान्परिपालयेत्

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 5

ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत्

तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 6

ते पूज्यास्ते नमस्कार्यास्ते रक्ष्याः पितरो यथा

तेष्वेव यात्रा लोकस्य भूतानामिव वासवे

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 7

अभिचारैरुपायैश्च दहेयुरपि तेजसा

निःशेषं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 8

नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः

कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 9

विद्यन्तेषां साहसिका गुणास्तेषामतीव हि

कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 10

प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे

सन्ति चैषामतिशठास्तथान्येऽतितपस्विनः

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 11

कृषिगोरक्ष्यमप्यन्ये भैक्षमन्येऽप्यनुष्ठिताः

चोराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 12

सर्वकर्मसु दृश्यन्ते प्रशान्तेष्वितरेषु च

विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 13

नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम्

धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत्

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 14

पितॄणां देवतानां च मनुष्योरगरक्षसाम्

पुरोहिता महाभागा ब्राह्मणा वै नराधिप

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 15

नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः

नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 16

अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्

यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत्

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 17

परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः

निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः

परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 18

ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते

ब्राह्मणैर्यः पराक्रुष्टः पराभूयात्क्षणाद्धि सः

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 19

शका यवनकाम्बोजास्तास्ताः क्षत्रियजातयः

वृषलत्वं परिगता ब्राह्मणानामदर्शनात्

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 20

द्रमिळाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः

कौलाः सर्पा माहिषकास्तास्ताः क्षत्रियजातयः

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 21

वृषलत्वं परिगता ब्राह्मणानामदर्शनात्

श्रेयान्पराजयस्तेभ्यो न जयो जयतां वर

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 22

यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम्

ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 23

परिवादो द्विजातीनां न श्रोतव्यः कथंचन

आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 24

न स जातो जनिष्यो वा पृथिव्यामिह कश्चन

यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत्

Mahabharata

Anushasana Parva, Adhyaya 33, Verse 25

दुर्ग्रहो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी

दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि