Mahabharata

Anushasana Parva, Adhyaya 32

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 1

के पूज्याः के नमस्कार्या मानवैर्भरतर्षभ

विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम्

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

नारदस्य च संवादं वासुदेवस्य चोभयोः

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 3

नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान्

केशवः परिपप्रच्छ भगवन्कान्नमस्यसि

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 4

बहुमानः परः केषु भवतो यान्नमस्यसि

शक्यं चेच्छ्रोतुमिच्छामि ब्रूह्येतद्धर्मवित्तम

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 5

शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन

त्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 6

वरुणं वायुमादित्यं पर्जन्यं जातवेदसम्

स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणमेव च

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 7

वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम्

सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 8

तपोधनान्वेदविदो नित्यं वेदपरायणान्

महार्हान्वृष्णिशार्दूल सदा संपूजयाम्यहम्

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 9

अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः

संतुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 10

सम्यग्ददति ये चेष्टान्क्षान्ता दान्ता जितेन्द्रियाः

सस्यं धनं क्षितिं गाश्च तान्नमस्यामि यादव

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 11

ये ते तपसि वर्तन्ते वने मूलफलाशनाः

असंचयाः क्रियावन्तस्तान्नमस्यामि यादव

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 12

ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः

भुञ्जन्ते देवशेषाणि तान्नमस्यामि यादव

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 13

ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः

याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम्

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 14

प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशः

आ पृष्ठतापात्स्वाध्याये युक्तास्तान्पूजयाम्यहम्

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 15

गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः

शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 16

सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसंगराः

वोढारो हव्यकव्यानां तान्नमस्यामि यादव

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 17

भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः

निःसुखा निर्धना ये च तान्नमस्यामि यादव

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 18

निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयोजनाः

अहिंसानिरता ये च ये च सत्यव्रता नराः

दान्ताः शमपराश्चैव तान्नमस्यामि केशव

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 19

देवतातिथिपूजायां प्रसक्ता गृहमेधिनः

कपोतवृत्तयो नित्यं तान्नमस्यामि यादव

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 20

येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते

शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 21

ब्राह्मणास्त्रिषु लोकेषु ये त्रिवर्गमनुष्ठिताः

अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 22

अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदा

व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 23

अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च

सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं द्विजान्

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 24

नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन्

लोकज्येष्ठाञ्ज्ञाननिष्ठांस्तमोघ्नाँल्लोकभास्करान्

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 25

तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा

पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 26

अस्मिँल्लोके सदा ह्येते परत्र च सुखप्रदाः

त एते मान्यमाना वै प्रदास्यन्ति सुखं तव

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 27

ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च

नित्यं सत्ये च निरता दुर्गाण्यतितरन्ति ते

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 28

नित्यं शमपरा ये च तथा ये चानसूयकाः

नित्यं स्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 29

सर्वान्देवान्नमस्यन्ति ये चैकं देवमाश्रिताः

श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते

Mahabharata

Anushasana Parva, Adhyaya 32, Verse 30

तथैव विप्रप्रवरान्नमस्कृत्य यतव्रतान्

भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते