Anushasana Parva, Adhyaya 32, Verse 1
के पूज्याः के नमस्कार्या मानवैर्भरतर्षभ
विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम्
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
के पूज्याः के नमस्कार्या मानवैर्भरतर्षभ
विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं वासुदेवस्य चोभयोः
नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान्
केशवः परिपप्रच्छ भगवन्कान्नमस्यसि
बहुमानः परः केषु भवतो यान्नमस्यसि
शक्यं चेच्छ्रोतुमिच्छामि ब्रूह्येतद्धर्मवित्तम
शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन
त्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति
वरुणं वायुमादित्यं पर्जन्यं जातवेदसम्
स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणमेव च
वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम्
सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो
तपोधनान्वेदविदो नित्यं वेदपरायणान्
महार्हान्वृष्णिशार्दूल सदा संपूजयाम्यहम्
अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः
संतुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो
सम्यग्ददति ये चेष्टान्क्षान्ता दान्ता जितेन्द्रियाः
सस्यं धनं क्षितिं गाश्च तान्नमस्यामि यादव
ये ते तपसि वर्तन्ते वने मूलफलाशनाः
असंचयाः क्रियावन्तस्तान्नमस्यामि यादव
ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः
भुञ्जन्ते देवशेषाणि तान्नमस्यामि यादव
ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः
याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम्
प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशः
आ पृष्ठतापात्स्वाध्याये युक्तास्तान्पूजयाम्यहम्
गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः
शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव
सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसंगराः
वोढारो हव्यकव्यानां तान्नमस्यामि यादव
भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः
निःसुखा निर्धना ये च तान्नमस्यामि यादव
निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयोजनाः
अहिंसानिरता ये च ये च सत्यव्रता नराः
दान्ताः शमपराश्चैव तान्नमस्यामि केशव
देवतातिथिपूजायां प्रसक्ता गृहमेधिनः
कपोतवृत्तयो नित्यं तान्नमस्यामि यादव
येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते
शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा
ब्राह्मणास्त्रिषु लोकेषु ये त्रिवर्गमनुष्ठिताः
अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव
अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदा
व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव
अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च
सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं द्विजान्
नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन्
लोकज्येष्ठाञ्ज्ञाननिष्ठांस्तमोघ्नाँल्लोकभास्करान्
तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा
पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ
अस्मिँल्लोके सदा ह्येते परत्र च सुखप्रदाः
त एते मान्यमाना वै प्रदास्यन्ति सुखं तव
ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च
नित्यं सत्ये च निरता दुर्गाण्यतितरन्ति ते
नित्यं शमपरा ये च तथा ये चानसूयकाः
नित्यं स्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते
सर्वान्देवान्नमस्यन्ति ये चैकं देवमाश्रिताः
श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते
तथैव विप्रप्रवरान्नमस्कृत्य यतव्रतान्
भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते