Anushasana Parva, Adhyaya 31, Verse 1
श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह
सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर
Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह
सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर
विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत
श्रूयते वदसे तच्च दुष्प्रापमिति सत्तम
वीतहव्यश्च राजर्षिः श्रुतो मे विप्रतां गतः
तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो
स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तम
वरेण तपसा वापि तन्मे व्याख्यातुमर्हति
शृणु राजन्यथा राजा वीतहव्यो महायशाः
क्षत्रियः सन्पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम्
मनोर्महात्मनस्तात प्रजाधर्मेण शासतः
बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः
तस्यान्ववाये द्वौ राजन्राजानौ संबभूवतुः
हेहयस्तालजङ्घश्च वत्सेषु जयतां वर
हेहयस्य तु पुत्राणां दशसु स्त्रीषु भारत
शतं बभूव प्रख्यातं शूराणामनिवर्तिनाम्
तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम्
धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः
काशिष्वपि नृपो राजन्दिवोदासपितामहः
हर्यश्व इति विख्यातो बभूव जयतां वरः
स वीतहव्यदायादैरागत्य पुरुषर्षभ
गङ्गायमुनयोर्मध्ये संग्रामे विनिपातितः
तं तु हत्वा नरवरं हेहयास्ते महारथाः
प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः
हर्यश्वस्य तु दायादः काशिराजोऽभ्यषिच्यत
सुदेवो देवसंकाशः साक्षाद्धर्म इवापरः
स पालयन्नेव महीं धर्मात्मा काशिनन्दनः
तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः
तमप्याजौ विनिर्जित्य प्रतिजग्मुर्यथागतम्
सौदेविस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत
दिवोदासस्तु विज्ञाय वीर्यं तेषां महात्मनाम्
वाराणसीं महातेजा निर्ममे शक्रशासनात्
विप्रक्षत्रियसंबाधां वैश्यशूद्रसमाकुलाम्
नैकद्रव्योच्चयवतीं समृद्धविपणापणाम्
गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम
गोमत्या दक्षिणे चैव शक्रस्येवामरावतीम्
तत्र तं राजशार्दूलं निवसन्तं महीपतिम्
आगत्य हेहया भूयः पर्यधावन्त भारत
स निष्पत्य ददौ युद्धं तेभ्यो राजा महाबलः
देवासुरसमं घोरं दिवोदासो महाद्युतिः
स तु युद्धे महाराज दिनानां दशतीर्दश
हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत्
हतयोधस्ततो राजन्क्षीणकोशश्च भूमिपः
दिवोदासः पुरीं हित्वा पलायनपरोऽभवत्
स त्वाश्रममुपागम्य भरद्वाजस्य धीमतः
जगाम शरणं राजा कृताञ्जलिररिंदम
भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः
अहमेकः परिद्यूनो भवन्तं शरणं गतः
शिष्यस्नेहेन भगवन्स मां रक्षितुमर्हसि
निःशेषो हि कृतो वंशो मम तैः पापकर्मभिः
तमुवाच महाभागो भरद्वाजः प्रतापवान्
न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम्
अहमिष्टिं करोम्यद्य पुत्रार्थं ते विशां पते
वैतहव्यसहस्राणि यथा त्वं प्रसहिष्यसि
तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम्
अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः
स जातमात्रो ववृधे समाः सद्यस्त्रयोदश
वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत
योगेन च समाविष्टो भरद्वाजेन धीमता
तेजो लौक्यं स संगृह्य तस्मिन्देशे समाविशत्