Anushasana Parva, Adhyaya 30, Verse 1
एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः
अतिष्ठत गयां गत्वा सोऽङ्गुष्ठेन शतं समाः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः
अतिष्ठत गयां गत्वा सोऽङ्गुष्ठेन शतं समाः
सुदुष्करं वहन्योगं कृशो धमनिसंततः
त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम्
तं पतन्तमभिद्रुत्य परिजग्राह वासवः
वराणामीश्वरो दाता सर्वभूतहिते रतः
मतङ्ग ब्राह्मणत्वं ते संवृतं परिपन्थिभिः
पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन्
ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः
ब्राह्मणेभ्योऽनुतृप्यन्ति पितरो देवतास्तथा
ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते
ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति
बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः
पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति
किं मां तुदसि दुःखार्तं मृतं मारयसे च माम्
तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषते
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैः शतक्रतो
सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः
यः पापेभ्यः पापतमस्तेषामधम एव सः
ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम्
दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम्
दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः
एकारामो ह्यहं शक्र निर्द्वंद्वो निष्परिग्रहः
अहिंसादमदानस्थः कथं नार्हामि विप्रताम्
यथाकामविहारी स्यां कामरूपी विहंगमः
ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम्
यथा ममाक्षया कीर्तिर्भवेच्चापि पुरंदर
छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि
एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत
प्राणांस्त्यक्त्वा मतङ्गोऽपि प्राप तत्स्थानमुत्तमम्
एवमेतत्परं स्थानं ब्राह्मण्यं नाम भारत
तच्च दुष्प्रापमिह वै महेन्द्रवचनं यथा