Anushasana Parva, Adhyaya 29, Verse 1
एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः
अतिष्ठदेकपादेन वर्षाणां शतमच्युत
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः
अतिष्ठदेकपादेन वर्षाणां शतमच्युत
तमुवाच ततः शक्रः पुनरेव महायशाः
मतङ्ग परमं स्थानं प्रार्थयन्नतिदुर्लभम्
मा कृथाः साहसं पुत्र नैष धर्मपथस्तव
अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि
मतङ्ग परमं स्थानं वार्यमाणो मया सकृत्
चिकीर्षस्येव तपसा सर्वथा न भविष्यसि
तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति
स जायते पुल्कसो वा चण्डालो वा कदाचन
पुंश्चलः पापयोनिर्वा यः कश्चिदिह लक्ष्यते
स तस्यामेव सुचिरं मतङ्ग परिवर्तते
ततो दशगुणे काले लभते शूद्रतामपि
शूद्रयोनावपि ततो बहुशः परिवर्तते
ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि
वैश्यतायां चिरं कालं तत्रैव परिवर्तते
ततः षष्टिगुणे काले राजन्यो नाम जायते
राजन्यत्वे चिरं कालं तत्रैव परिवर्तते
ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम्
ब्रह्मबन्धुश्चिरं कालं तत्रैव परिवर्तते
ततस्तु द्विशते काले लभते काण्डपृष्ठताम्
काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते
ततस्तु त्रिशते काले लभते द्विजतामपि
तां च प्राप्य चिरं कालं तत्रैव परिवर्तते
ततश्चतुःशते काले श्रोत्रियो नाम जायते
श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते
तदैव क्रोधहर्षौ च कामद्वेषौ च पुत्रक
अतिमानातिवादौ तमाविशन्ति द्विजाधमम्
तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम्
अथ ते वै जयन्त्येनं तालाग्रादिव पात्यते
मतङ्ग संप्रधार्यैतद्यदहं त्वामचूचुदम्
वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम्