Mahabharata

Anushasana Parva, Adhyaya 28

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 1

प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान्

गुणैः समुदितः सर्वैर्वयसा च समन्वितः

तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 2

क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम

ब्राह्मण्यं प्राप्नुयात्केन तन्मे व्याख्यातुमर्हसि

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 3

तपसा वा सुमहता कर्मणा वा श्रुतेन वा

ब्राह्मण्यमथ चेदिच्छेत्तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 4

ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस्त्रिभिः

परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 5

बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः

पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 6

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 7

द्विजातेः कस्यचित्तात तुल्यवर्णः सुतः प्रभुः

मतङ्गो नाम नाम्नाभूत्सर्वैः समुदितो गुणैः

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 8

स यज्ञकारः कौन्तेय पित्रा सृष्टः परंतप

प्रायाद्गर्दभयुक्तेन रथेनेहाशुगामिना

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 9

स बालं गर्दभं राजन्वहन्तं मातुरन्तिके

निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 10

तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी

उवाच मा शुचः पुत्र चण्डालस्त्वाधितिष्ठति

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 11

ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते

आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 12

अयं तु पापप्रकृतिर्बाले न कुरुते दयाम्

स्वयोनिं मानयत्येष भावो भावं निगच्छति

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 13

एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः

अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 14

ब्रूहि रासभि कल्याणि माता मे येन दूषिता

कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 15

केन जातोऽस्मि चण्डालो ब्राह्मण्यं येन मेऽनशत्

तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 16

ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह

जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत्

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 17

एवमुक्तो मतङ्गस्तु प्रत्युपायाद्गृहं प्रति

तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत्

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 18

मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि

कस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 19

अयोनिरग्र्ययोनिर्वा यः स्यात्स कुशली भवेत्

कुशलं तु कुतस्तस्य यस्येयं जननी पितः

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 20

ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीह माम्

अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत्

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 21

एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः

ततो गत्वा महारण्यमतप्यत महत्तपः

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 22

ततः संतापयामास विबुधांस्तपसान्वितः

मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 23

तं तथा तपसा युक्तमुवाच हरिवाहनः

मतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान्

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 24

वरं ददानि ते हन्त वृणीष्व त्वं यदिच्छसि

यच्चाप्यवाप्यमन्यत्ते सर्वं प्रब्रूहि माचिरम्

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 25

ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः

गच्छेयं तदवाप्येह वर एष वृतो मया

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 26

एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः

ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 27

श्रेष्ठं यत्सर्वभूतेषु तपो यन्नातिवर्तते

तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि

Mahabharata

Anushasana Parva, Adhyaya 28, Verse 28

देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम्

चण्डालयोनौ जातेन न तत्प्राप्यं कथंचन