Anushasana Parva, Adhyaya 27, Verse 1
बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम्
पराक्रमे शक्रसममादित्यसमतेजसम्
Containing 105 sacred Sanskrit shlokas with multi-author commentaries and translations.
बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम्
पराक्रमे शक्रसममादित्यसमतेजसम्
गाङ्गेयमर्जुनेनाजौ निहतं भूरिवर्चसम्
भ्रातृभिः सहितोऽन्यैश्च पर्युपास्ते युधिष्ठिरः
शयानं वीरशयने कालाकाङ्क्षिणमच्युतम्
आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः
अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः
अङ्गिरा गौतमोऽगस्त्यः सुमतिः स्वायुरात्मवान्
विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः
उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः
दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः
भरद्वाजश्च रैभ्यश्च यवक्रीतस्त्रितस्तथा
स्थूलाक्षः शकलाक्षश्च कण्वो मेधातिथिः कृशः
नारदः पर्वतश्चैव सुधन्वाथैकतो द्वितः
नितंभूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः
जामदग्न्यस्तथा रामः काम्यश्चेत्येवमादयः
समागता महात्मानो भीष्मं द्रष्टुं महर्षयः
तेषां महात्मनां पूजामागतानां युधिष्ठिरः
भ्रातृभिः सहितश्चक्रे यथावदनुपूर्वशः
ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः
भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः
भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम्
मेने दिविस्थमात्मानं तुष्ट्या परमया युतः
ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः
अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम्
तानृषीन्सुमहाभागानन्तर्धानगतानपि
पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः
प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः
उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः
प्रभावात्तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः
प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः
महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते
पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः
कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः
धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः
के देशाः के जनपदा आश्रमाः के च पर्वताः
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर
इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषिताम्
असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः
शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनार्चितः
कृतकृत्य उपातिष्ठत्सिद्धं तमतिथिं तदा
तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः
चक्रतुर्वेदसंबद्धास्तच्छेषकृतलक्षणाः
शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः
प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि
के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम्
ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः
येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः
गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत्
स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम्
न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते
सर्वाणि येषां गाङ्गेयैस्तोयैः कृत्यानि देहिनाम्
गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः
पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः
पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम्
स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम्
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि