Anushasana Parva, Adhyaya 25, Verse 1
इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते
व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम्
तत्तेऽहं संप्रवक्ष्यामि तदिहैकमनाः शृणु
चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते
इति पृष्टो महाराज पराशरशरीरजः
अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम्
ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम्
ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम्
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत
वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम्
गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप
उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम्
यः प्रवृत्तां श्रुतिं सम्यक्शास्त्रं वा मुनिभिः कृतम्
दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम्
आत्मजां रूपसंपन्नां महतीं सदृशे वरे
न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मघातिनम्
अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु
दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम्
चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा
हरेत यो वै सर्वस्वं तं विद्याद्ब्रह्मघातिनम्
आश्रमे वा वने वा यो ग्रामे वा यदि वा पुरे
अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम्