Anushasana Parva, Adhyaya 24, Verse 1
श्राद्धकाले च दैवे च धर्मे चापि पितामह
इच्छामीह त्वयाख्यातं विहितं यत्सुरर्षिभिः
Containing 101 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्राद्धकाले च दैवे च धर्मे चापि पितामह
इच्छामीह त्वयाख्यातं विहितं यत्सुरर्षिभिः
दैवं पूर्वाह्णिके कुर्यादपराह्णे तु पैतृकम्
मङ्गलाचारसंपन्नः कृतशौचः प्रयत्नवान्
मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तितः
कालहीनं तु यद्दानं तं भागं रक्षसां विदुः
लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम्
रजस्वलाभिर्दृष्टं च तं भागं रक्षसां विदुः
अवघुष्टं च यद्भुक्तमव्रतेन च भारत
परामृष्टं शुना चैव तं भागं रक्षसां विदुः
केशकीटावपतितं क्षुतं श्वभिरवेक्षितम्
रुदितं चावधूतं च तं भागं रक्षसां विदुः
निरोंकारेण यद्भुक्तं सशस्त्रेण च भारत
दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः
परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत्
दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः
गर्हितं निन्दितं चैव परिविष्टं समन्युना
दैवं वाप्यथ वा पैत्र्यं तं भागं रक्षसां विदुः
मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते
त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः
आज्याहुतिं विना चैव यत्किंचित्परिविष्यते
दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः
ये भागा रक्षसां प्रोक्तास्त उक्ता भरतर्षभ
अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु
यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च
दैवे वाप्यथ वा पित्र्ये राजन्नार्हन्ति केतनम्
श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च यः
अपस्मारी च यश्चान्धो राजन्नार्हन्ति सत्कृतिम्
चिकित्सका देवलका वृथानियमधारिणः
सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम्
गायना नर्तकाश्चैव प्लवका वादकास्तथा
कथका योधकाश्चैव राजन्नार्हन्ति केतनम्
होतारो वृषलानां च वृषलाध्यापकास्तथा
तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम्
अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत
नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ
अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः
ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम्
अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये
स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम्
अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत
पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम्
ऋणकर्ता च यो राजन्यश्च वार्धुषिको द्विजः
प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम्
स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ
अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम्
श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ
दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः
चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः
सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः
क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम्
न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत्
अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत्
अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः
सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ
भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः
उदितास्तमितो यश्च तथैवास्तमितोदितः
अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः
अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ
ससंज्ञो भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः