Mahabharata

Anushasana Parva, Adhyaya 23

Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 1

किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम्

ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्यलिङ्गिनम्

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 2

स्ववृत्तिमभिपन्नाय लिङ्गिने वेतराय वा

देयमाहुर्महाराज उभावेतौ तपस्विनौ

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 3

श्रद्धया परया पूतो यः प्रयच्छेद्द्विजातये

हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 4

श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः

पूतो भवति सर्वत्र किं पुनस्त्वं महीपते

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 5

न ब्राह्मणं परीक्षेत दैवेषु सततं नरः

कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 6

न ब्राह्मणः साधयते हव्यं दैवात्प्रसिध्यति

देवप्रसादादिज्यन्ते यजमाना न संशयः

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 7

ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः

मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान्

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 8

अपूर्वोऽप्यथ वा विद्वान्संबन्धी वाथ यो भवेत्

तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 9

कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान्

ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ते त्रयः

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 10

तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम्

पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 11

यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति

तथा दुश्चरितं सर्वं त्रय्यावृत्त्या विनश्यति

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 12

सर्वे च वेदाः सह षड्भिरङ्गैः; सांख्यं पुराणं च कुले च जन्म

नैतानि सर्वाणि गतिर्भवन्ति; शीलव्यपेतस्य नरस्य राजन्

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 13

अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम्

ब्रह्मन्स तेनाचरते ब्रह्महत्यां; लोकास्तस्य ह्यन्तवन्तो भवन्ति

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 14

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्

नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात्

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 15

इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः

पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 16

यदिदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः

भुक्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत्

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 17

आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः

भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 18

अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः

किं निश्चितं भवेत्तत्र तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 19

अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा

आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 20

ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम्

अनाचरन्तस्तद्धर्मं संकरे निरताः प्रभो

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 21

तेभ्यो रत्नं हिरण्यं वा गामश्वान्वा ददाति यः

दश वर्षाणि विष्ठां स भुङ्क्ते निरयमाश्रितः

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 22

मेदानां पुल्कसानां च तथैवान्तावसायिनाम्

कृतं कर्माकृतं चापि रागमोहेन जल्पताम्

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 23

वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे

ददतीह न राजेन्द्र ते लोकान्भुञ्जतेऽशुभान्

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 24

किं परं ब्रह्मचर्यस्य किं परं धर्मलक्षणम्

किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 25

ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम्

मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम्

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 26

कस्मिन्काले चरेद्धर्मं कस्मिन्कालेऽर्थमाचरेत्

कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 27

काल्यमर्थं निषेवेत ततो धर्ममनन्तरम्

पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम्

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 28

ब्राह्मणांश्चाभिमन्येत गुरूंश्चाप्यभिपूजयेत्

सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 29

अधिकारे यदनृतं राजगामि च पैशुनम्

गुरोश्चालीककरणं समं तद्ब्रह्महत्यया

Mahabharata

Anushasana Parva, Adhyaya 23, Verse 30

प्रहरेन्न नरेन्द्रेषु न गां हन्यात्तथैव च

भ्रूणहत्यासमं चैतदुभयं यो निषेवते