Anushasana Parva, Adhyaya 22, Verse 1
न बिभेति कथं सा स्त्री शापस्य परमद्युतेः
कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
न बिभेति कथं सा स्त्री शापस्य परमद्युतेः
कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे
अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम्
न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया
द्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम
शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम
उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते
अव्युत्थानेन ते लोका जिताः सत्यपराक्रम
जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ
स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः
तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः
स त्वं येन च कार्येण संप्राप्तो भगवानिह
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ
तवोपदेशं कर्तुं वै तच्च सर्वं कृतं मया
क्षेमी गमिष्यसि गृहाञ्श्रमश्च न भविष्यति
कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति
काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम्
अनतिक्रमणीयैषा कृत्स्नैर्लोकैस्त्रिभिः सदा
गच्छस्व सुकृतं कृत्वा किं वान्यच्छ्रोतुमिच्छसि
यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम्
ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ
तस्य संमाननार्थं मे त्वयि वाक्यं प्रभाषितम्
श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः
अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत्
गृहमागम्य विश्रान्तः स्वजनं प्रतिपूज्य च
अभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन
पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम्
प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना
भवताहमनुज्ञातः प्रस्थितो गन्धमादनम्
तस्य चोत्तरतो देशे दृष्टं तद्दैवतं महत्
तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः
श्रावितश्चापि तद्वाक्यं गृहमभ्यागतः प्रभो
तमुवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम्
नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान्
अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो
कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा
कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम्
उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः