Anushasana Parva, Adhyaya 21, Verse 1
अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत्
अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षयत्
शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत्
भद्रासनं ततश्चित्रं ऋषिरन्वाविशन्नवम्
अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा
स्नापयामास शनकैस्तमृषिं सुखहस्तवत्
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा
स तेन सुसुखोष्णेन तस्या हस्तसुखेन च
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः
तत उत्थाय स मुनिस्तदा परमविस्मितः
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि
तस्य बुद्धिरियं किं नु मोहस्तत्त्वमिदं भवेत्
अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम्
सा चामृतरसप्रख्यमृषेरन्नमुपाहरत्
तस्य स्वादुतयान्नस्य न प्रभूतं चकार सः
व्यगमच्चाप्यहःशेषं ततः संध्यागमत्पुनः
अथ स्त्री भगवन्तं सा सुप्यतामित्यचोदयत्
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते
न भद्रे परदारेषु मनो मे संप्रसज्जति
उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च
सा तदा तेन विप्रेण तथा धृत्या निवर्तिता
स्वतन्त्रास्मीत्युवाचैनं न धर्मच्छलमस्ति ते
नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति
बाधते मैथुनं विप्र मम भक्तिं च पश्य वै
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि
हरन्ति दोषजातानि नरं जातं यथेच्छकम्
प्रभवामि सदा धृत्या भद्रे स्वं शयनं व्रज
शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि
भूमौ निपतमानायाः शरणं भव मेऽनघ
यदि वा दोषजातं त्वं परदारेषु पश्यसि
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज
न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम्
स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मयि
स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै
नास्ति लोके हि काचित्स्त्री या वै स्वातन्त्र्यमर्हति
पिता रक्षति कौमारे भर्ता रक्षति यौवने
पुत्राश्च स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति
कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः
कुरु मा विमतिं विप्र श्रद्धां विजहि मा मम
यथा मम तथा तुभ्यं यथा तव तथा मम
जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत्
आश्चर्यं परमं हीदं किं नु श्रेयो हि मे भवेत्
दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता
किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः
कन्यारूपमिहाद्यैव किमिहात्रोत्तरं भवेत्
यथा परं शक्तिधृतेर्न व्युत्थास्ये कथंचन
न रोचये हि व्युत्थानं धृत्यैवं साधयाम्यहम्