Anushasana Parva, Adhyaya 20, Verse 1
तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम्
यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक्
Containing 76 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम्
यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक्
ततोऽगच्छत्स भगवानुत्तरामुत्तमां दिशम्
हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम्
स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम्
अभ्यगच्छन्नदीं पुण्यां बाहुदां धर्मदायिनीम्
अशोके विमले तीर्थे स्नात्वा तर्प्य च देवताः
तत्र वासाय शयने कौश्ये सुखमुवास ह
ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः
स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैव विधानतः
रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत्
विश्रान्तश्च समुत्थाय कैलासमभितो ययौ
सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया
मन्दाकिनीं च नलिनीं धनदस्य महात्मनः
अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम्
प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः
स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान्
निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत्
ते राक्षसास्तदा राजन्भगवन्तमथाब्रुवन्
असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम्
विदितो भगवानस्य कार्यमागमने च यत्
पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा
ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम्
विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत्
सुखं प्राप्तो भवान्कच्चित्किं वा मत्तश्चिकीर्षसि
ब्रूहि सर्वं करिष्यामि यन्मां त्वं वक्ष्यसि द्विज
भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम
सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः
प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम्
आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च
अथोपविष्टयोस्तत्र मणिभद्रपुरोगमाः
निषेदुस्तत्र कौबेरा यक्षगन्धर्वराक्षसाः
ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत्
भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः
आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा
संवर्ततामित्युवाच मुनिर्मधुरया गिरा
अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा
अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः
मनोहरा सुकेशी च सुमुखी हासिनी प्रभा
विद्युता प्रशमा दान्ता विद्योता रतिरेव च
एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः
अवादयंश्च गन्धर्वा वाद्यानि विविधानि च
अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपावसत्
दिव्यं संवत्सरं तत्र रमन्वै सुमहातपाः
ततो वैश्रवणो राजा भगवन्तमुवाच ह
साग्रः संवत्सरो यातस्तव विप्रेह पश्यतः
हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः
छन्दतो वर्ततां विप्र यथा वदति वा भवान्
अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम्
सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि
अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत
अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर
प्रीतोऽस्मि सदृशं चैव तव सर्वं धनाधिप
तव प्रसादाद्भगवन्महर्षेश्च महात्मनः
नियोगादद्य यास्यामि वृद्धिमानृद्धिमान्भव
अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः
कैलासं मन्दरं हैमं सर्वाननुचचार ह
तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम्
प्रदक्षिणं ततश्चक्रे प्रयतः शिरसा नमन्
धरणीमवतीर्याथ पूतात्मासौ तदाभवत्
स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः
समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः