Anushasana Parva, Adhyaya 18, Verse 1
महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः
पुरा पुत्र मया मेरौ तप्यता परमं तपः
पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः
लब्धवानस्मि तान्कामानहं वै पाण्डुनन्दन
तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि
चतुःशीर्षस्ततः प्राह शक्रस्य दयितः सखा
आलम्बायन इत्येव विश्रुतः करुणात्मकः
मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः
अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम्
अजराणामदुःखानां शतवर्षसहस्रिणाम्
लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज
वाल्मीकिश्चापि भगवान्युधिष्ठिरमभाषत
विवादे साम्नि मुनिभिर्ब्रह्मघ्नो वै भवानिति
उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत
सोऽहमीशानमनघमस्तौषं शरणं गतः
मुक्तश्चास्म्यवशः पापात्ततो दुःखविनाशनः
आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति
जामदग्न्यश्च कौन्तेयमाह धर्मभृतां वरः
ऋषिमध्ये स्थितस्तात तपन्निव विभावसुः
पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज
शुचिर्भूत्वा महादेवं गतवाञ्शरणं नृप
नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः
परशुं च ददौ देवो दिव्यान्यस्त्राणि चैव मे
पापं न भविता तेऽद्य अजेयश्च भविष्यसि
न ते प्रभविता मृत्युर्यशस्वी च भविष्यसि
आह मां भगवानेवं शिखण्डी शिवविग्रहः
यदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम्
शापाच्छक्रस्य कौन्तेय चितो धर्मोऽनशन्मम
तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददद्भवः
ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा
प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः
वसिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः
शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके
वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया
रथन्तरं द्विजश्रेष्ठ न सम्यगिति वर्तते
समीक्षस्व पुनर्बुद्ध्या हर्षं त्यक्त्वा द्विजोत्तम
अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते
एवमुक्त्वा महाक्रोधात्प्राह रुष्टः पुनर्वचः
प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः
दश वर्षसहस्राणि दशाष्टौ च शतानि च
नष्टपानीययवसे मृगैरन्यैश्च वर्जिते
अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते
भविता त्वं मृगः क्रूरो महादुःखसमन्वितः
तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः
ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः
अजरश्चामरश्चैव भविता दुःखवर्जितः
साम्यं समस्तु ते सौख्यं युवयोर्वर्धतां क्रतुः
अनुग्रहानेवमेष करोति भगवान्विभुः
परं धाता विधाता च सुखदुःखे च सर्वदा
अचिन्त्य एष भगवान्कर्मणा मनसा गिरा
न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः
ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा
यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर
चतुःषष्ट्यङ्गमददात्कालज्ञानं ममाद्भुतम्
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव
तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम्
आयुश्चैव सपुत्रस्य संवत्सरशतायुतम्
प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप
महातपा महातेजा महायोगी महायशाः
वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः
अपि नामेप्सितः पुत्रो मम स्याद्वै महेश्वरात्
इति मत्वा हृदि मतं प्राह मां सुरसत्तमः
मयि संभवतस्तस्य फलात्कृष्णो भविष्यति
सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति
वेदानां च स वै व्यस्ता कुरुवंशकरस्तथा
इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः