Anushasana Parva, Adhyaya 16, Verse 1
मूर्ध्ना निपत्य नियतस्तेजःसंनिचये ततः
परमं हर्षमागम्य भगवन्तमथाब्रुवम्
Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.
मूर्ध्ना निपत्य नियतस्तेजःसंनिचये ततः
परमं हर्षमागम्य भगवन्तमथाब्रुवम्
धर्मे दृढत्वं युधि शत्रुघातं; यशस्तथाग्र्यं परमं बलं च
योगप्रियत्वं तव संनिकर्षं; वृणे सुतानां च शतं शतानि
एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शंकरः
ततो मां जगतो माता धरणी सर्वपावनी
उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः
दत्तो भगवता पुत्रः साम्बो नाम तवानघ
मत्तोऽप्यष्टौ वरानिष्टान्गृहाण त्वं ददामि ते
प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन
द्विजेष्वकोपं पितृतः प्रसादं; शतं सुतानामुपभोगं परं च
कुले प्रीतिं मातृतश्च प्रसादं; शमप्राप्तिं प्रवृणे चापि दाक्ष्यम्
एवं भविष्यत्यमरप्रभाव; नाहं मृषा जातु वदे कदाचित्
भार्यासहस्राणि च षोडशैव; तासु प्रियत्वं च तथाक्षयत्वम्
प्रीतिं चाग्र्यां बान्धवानां सकाशा;द्ददामि ते वपुषः काम्यतां च
भोक्ष्यन्ते वै सप्ततिर्वै शतानि; गृहे तुभ्यमतिथीनां च नित्यम्
एवं दत्त्वा वरान्देवो मम देवी च भारत
अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज
एतदत्यद्भुतं सर्वं ब्राह्मणायातितेजसे
उपमन्यवे मया कृत्स्नमाख्यातं कौरवोत्तम
नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत
नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे
नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः
ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः
दश वर्षसहस्राणि तेन देवः समाधिना
आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम्
पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर
अत्युग्रं तेजसां तेजस्तपसां परमं तपः
विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत
भूरिकल्याणद विभो पुरुसत्य नमोऽस्तु ते
जातीमरणभीरूणां यतीनां यततां विभो
निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः
न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम्
त्वत्तः प्रवर्तते कालस्त्वयि कालश्च लीयते
कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि
तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः
अधिपौरुषमध्यात्ममधिभूताधिदैवतम्
अधिलोक्याधिविज्ञानमधियज्ञस्त्वमेव हि
त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैरपि
विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम्
अनिच्छतस्तव विभो जन्ममृत्युरनेकतः
द्वारं त्वं स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च
त्वमेव मोक्षः स्वर्गश्च कामः क्रोधस्त्वमेव हि
सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः
वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः
भूर्वायुर्ज्योतिरापश्च वाग्बुद्धिस्त्वं मतिर्मनः
कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च
इन्द्रियाणीन्द्रियार्थाश्च तत्परं प्रकृतेर्ध्रुवम्
विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि
यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम्
या गतिः सांख्ययोगानां स भवान्नात्र संशयः
नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम्
यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः
अहो मूढाः स्म सुचिरमिमं कालमचेतसः
यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः
सोऽयमासादितः साक्षाद्बहुभिर्जन्मभिर्मया
भक्तानुग्रहकृद्देवो यं ज्ञात्वामृतमश्नुते
देवासुरमनुष्याणां यच्च गुह्यं सनातनम्
गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैरपि
स एष भगवान्देवः सर्वकृत्सर्वतोमुखः
सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता