Mahabharata
Anushasana Parva, Adhyaya 13, Verse 1
किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना
कथं वै लोकयात्रां तु किंशीलश्च समाचरेत्
Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.
किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना
कथं वै लोकयात्रां तु किंशीलश्च समाचरेत्
कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम्
मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत्
प्राणातिपातं स्तैन्यं च परदारमथापि च
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत्
असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत्
अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम्
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत्
तस्माद्वाक्कायमनसा नाचरेदशुभं नरः
शुभाशुभान्याचरन्हि तस्य तस्याश्नुते फलम्