Mahabharata

Anushasana Parva, Adhyaya 12

Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 1

स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्याधिको भवेत्

एतन्मे संशयं राजन्यथावद्वक्तुमर्हसि

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

भङ्गाश्वनेन शक्रस्य यथा वैरमभूत्पुरा

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 3

पुरा भङ्गाश्वनो नाम राजर्षिरतिधार्मिकः

अपुत्रः स नरव्याघ्र पुत्रार्थं यज्ञमाहरत्

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 4

अग्निष्टुं नाम राजर्षिरिन्द्रद्विष्टं महाबलः

प्रायश्चित्तेषु मर्त्यानां पुत्रकामस्य चेष्यते

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 5

इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः

अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 6

कस्यचित्त्वथ कालस्य मृगयामटतो नृप

इदमन्तरमित्येव शक्रो नृपममोहयत्

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 7

एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः

न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 8

इतश्चेतश्च वै धावञ्श्रमतृष्णार्दितो नृपः

सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा

सोऽवगाह्य सरस्तात पाययामास वाजिनम्

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 9

अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः

अवगाह्य ततः स्नातो राजा स्त्रीत्वमवाप ह

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 10

आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः

चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 11

आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम्

अग्निष्टुं नाम इष्टं मे पुत्राणां शतमौरसम्

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 12

जातं महाबलानां वै तान्प्रवक्ष्यामि किं त्वहम्

दारेषु चास्मदीयेषु पौरजानपदेषु च

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 13

मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च

स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः

व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 14

पौरुषं विप्रनष्टं मे स्त्रीत्वं केनापि मेऽभवत्

स्त्रीभावात्कथमश्वं तु पुनरारोढुमुत्सहे

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 15

महता त्वथ खेदेन आरुह्याश्वं नराधिपः

पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तम

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 16

पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते

किं न्विदं त्विति विज्ञाय विस्मयं परमं गताः

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 17

अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः

मृगयामस्मि निर्यातो बलैः परिवृतो दृढम्

उद्भ्रान्तः प्राविशं घोरामटवीं दैवमोहितः

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 18

अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः

सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम्

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 19

तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः

अतृप्त इव पुत्राणां दाराणां च धनस्य च

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 20

उवाच पुत्रांश्च ततः स्त्रीभूतः पार्थिवोत्तमः

संप्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः

अभिषिच्य स पुत्राणां शतं राजा वनं गतः

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 21

तामाश्रमे स्त्रियं तात तापसोऽभ्यवपद्यत

तापसेनास्य पुत्राणामाश्रमेऽप्यभवच्छतम्

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 22

अथ सा तान्सुतान्गृह्य पूर्वपुत्रानभाषत

पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 23

एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः

सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 24

तान्दृष्ट्वा भ्रातृभावेन भुञ्जानान्राज्यमुत्तमम्

चिन्तयामास देवेन्द्रो मन्युनाभिपरिप्लुतः

उपकारोऽस्य राजर्षेः कृतो नापकृतं मया

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 25

ततो ब्राह्मणरूपेण देवराजः शतक्रतुः

भेदयामास तान्गत्वा नगरं वै नृपात्मजान्

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 26

भ्रातॄणां नास्ति सौभ्रात्रं येऽप्येकस्य पितुः सुताः

राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 27

यूयं भङ्गाश्वनापत्यास्तापसस्येतरे सुताः

कश्यपस्य सुराश्चैव असुराश्च सुतास्तथा

युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 28

इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन्

तच्छ्रुत्वा तापसी चापि संतप्ता प्ररुरोद ह

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 29

ब्राह्मणच्छद्मनाभ्येत्य तामिन्द्रोऽथान्वपृच्छत

केन दुःखेन संतप्ता रोदिषि त्वं वरानने

Mahabharata

Anushasana Parva, Adhyaya 12, Verse 30

ब्राह्मणं तु ततो दृष्ट्वा सा स्त्री करुणमब्रवीत्

पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते