Mahabharata

Anushasana Parva, Adhyaya 9

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 1

ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह

न प्रयच्छन्ति मोहात्ते के भवन्ति महामते

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 2

एतन्मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर

प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 3

यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु

आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम्

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 4

यां रात्रिं जायते पापो यां च रात्रिं विनश्यति

एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत

यच्च तस्य हुतं किंचित्सर्वं तस्योपहन्यते

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 5

अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः

निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 6

अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः

अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 7

अत्रैवोदाहरन्तीममितिहासं पुरातनम्

सृगालस्य च संवादं वानरस्य च भारत

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 8

तौ सखायौ पुरा ह्यास्तां मानुषत्वे परंतप

अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 9

ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत्

श्मशानमध्ये संप्रेक्ष्य पूर्वजातिमनुस्मरन्

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 10

किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम्

यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान्

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 11

एवमुक्तः प्रत्युवाच सृगालो वानरं तदा

ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम्

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 12

तत्कृते पापिकां योनिमापन्नोऽस्मि प्लवंगम

तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 13

इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम्

कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम्

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 14

श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते

कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 15

एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै

प्रतिश्रुत्य भवेद्देयं नाशा कार्या हि ब्राह्मणैः

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 16

ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते

सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 17

यं निरीक्षेत संक्रुद्ध आशया पूर्वजातया

प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 18

स एव हि यदा तुष्टो वचसा प्रतिनन्दति

भवत्यगदसंकाशो विषये तस्य भारत

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 19

पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा

पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 20

एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते

सहस्रकिरणस्येव सवितुर्धरणीतले

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 21

तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर

यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 22

ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः

शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 23

इतो दत्तेन जीवन्ति देवताः पितरस्तथा

तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता

Mahabharata

Anushasana Parva, Adhyaya 9, Verse 24

महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते

वेलायां न तु कस्यांचिद्गच्छेद्विप्रो ह्यपूजितः