Mahabharata

Anushasana Parva, Adhyaya 8

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 1

के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत

एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 2

उत्तमापद्गतस्यापि यत्र ते वर्तते मनः

मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 3

स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम्

येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 4

येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम्

उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम्

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 5

विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम्

श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम्

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 6

संसत्सु वदतां येषां हंसानामिव संघशः

मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 7

सम्यगुच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर

शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 8

ये चापि तेषां श्रोतारः सदा सदसि संमताः

विज्ञानगुणसंपन्नास्तेषां च स्पृहयाम्यहम्

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 9

सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च

ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर

ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम्

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 10

शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितम्

शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर

तेषां संख्यायमानानां दानशूरो विशिष्यते

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 11

धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा

कुले जातो धर्मगतिस्तपोविद्यापरायणः

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 12

न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन

त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 13

यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्वह

तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 14

न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत्

न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 15

न हि मे वृजिनं किंचिद्विद्यते ब्राह्मणेष्विह

अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 16

कर्मणा मनसा वापि वाचा वापि परंतप

यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम्

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 17

ब्रह्मण्य इति मामाहुस्तया वाचास्मि तोषितः

एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम्

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 18

पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणयायिनः

तेषु मे तात गन्तव्यमह्नाय च चिराय च

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 19

यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर

स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 20

क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः

पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणः पिता

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 21

नारी तु पत्यभावे वै देवरं कुरुते पतिम्

पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम्

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 22

पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते

अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 23

ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान्

आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 24

तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर

उभे चैते परित्याज्ये तेजश्चैव तपस्तथा

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 25

व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते

हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 26

भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात्

कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत्

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 27

दण्डपाणिर्यथा गोषु पालो नित्यं स्थिरो भवेत्

ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत्

Mahabharata

Anushasana Parva, Adhyaya 8, Verse 28

पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः

गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम्